This page has been fully proofread twice.

अजनि शनैर्विशदं जगदपसर्पति कालकूटसन्तमसे ।
[^१]तात्पर्यमिव कवीनां तार्किककोलाहलोपरमे ॥ ३० ॥
 
ततश्च सान्निध्यत एवं भगवतश्चन्द्रचूडस्य पल्लवितान्यरण्यानि, पर्यपूर्यन्त सागराः, प्रावर्तन्त सरितः, पस्पन्दिरे मरुतः, प्रचकाशिरे ज्योतींषि, प्रसेदुर्दिशः, प्रशेमुरुत्पाताः, प्रादुरभूवन्मङ्गळानि, अचेतयन्त
 
[commentary]
 
तस्मिन् ये तरङ्गाः ऊर्मयः तेषां निकरस्समूहः तेन व्याकीर्णं प्रकीर्णम् । अथवा नुन्नमित्यर्थः । यच्छैवालं जम्बालः तेन तुल्यं तद्वदित्यर्थः । बहिः क्वचन यत्र कुत्र वा कैरप्यदृष्टस्थले व्यलीयत विलीनमभूदित्यर्थः ॥ अजनीति ॥ कालकूटः विषराजः, स एव सन्तमसं तमः । 'अवसमन्धेभ्यस्तमसः' (५.४.७९) इत्यकारान्तश्शब्दः । 'ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः' इत्यमरः । तस्मिन् अपसर्पति अपसरमाणे सति, अखिलं जगद्भुवनजातम् । तार्किका शुष्कनैयायिकाः तेषां कोलाहलः कलकलध्वनिः तस्य उपरमः उपरतिः, अवसानमिति यावत् । तस्मिन् सति कवीनां काव्यालङ्कारविदां तात्पर्यं उद्दिष्टार्थ इव शनैः मन्दं विशदं प्रकाशमानम्, अजनि बभूवेत्यर्थः ॥ सान्निध्यतः इति ॥ चन्द्रश्चूडायां यस्य स तथाभूतः चन्द्रशेखर इत्यर्थः । तस्य सान्निध्यतस्सन्निधानात् अरण्यानि विपिनानि, पल्लवितानि सञ्जातकिसलयानीत्यर्थः । सागराः समुद्राः, पर्यपूर्यन्त परिपूरिता बभूवुरित्यर्थः । सरितो नद्यः प्रावर्तन्त प्रावहन्नित्यर्थः । मरुतो वायवः
पस्पन्दिरे प्रचेलुरित्यर्थः । ज्योतींषि सूर्यादयः प्रचकाशिरे बभुरित्यर्थः । दिशः ककुभः, प्रसेदुः विमला बभूवुरित्यर्थः । उत्पाताः धूमकेतूपकेत्वादयः । 'अग्न्युत्पातौ धूमकेतू' इत्यमरः । प्रशेमुः शान्तिं प्रापुः, मङ्गळानि कल्याणानि, प्रादुरभूवन् प्रादुर्बभूवुरित्यर्थः । जन्तवः प्राणिनः, अचेतयन्त संज्ञां, प्रापुरित्यर्थः । वासुकिस्सर्पराजो यथापुरं पूर्वकालमिव अवाबुध्यत प्रबोधं प्रापेत्यर्थः । देवासुरा उत्तस्थुः उत्थानं चक्रुरित्यर्थः । अम्भोजसम्भवश्चतुराननोऽपि शनैस्संज्ञां प्रज्ञामुपलक्ष्य आश्रित्य चन्द्रशेखरं चन्द्रमौळीश्वरं ददर्श अपश्यत् ॥ परीति ॥ असौ ब्रह्मा पर्याप्ताः परिपूर्णा ये इन्दुवः राकाचन्द्राः तेषां
 
[^१] तार्किककोलाहले सक्ति कवितात्पर्यं विशदं न भवेत् -- "तर्का प्रतिष्ठानात् -- " इति न्यायात् ॥