This page has been fully proofread twice.

इति निर्विण्ण इव निवेदयति गरुडध्वजे, प्रहसन् पार्वतीरमणः, पश्य तावदिति ब्रुवन्, प्रसारयन् [^१]दक्षिणं बाहुम् अनुसस्मार हालाहलम् ।
 
सर्वातङ्कविशङ्कशङ्करजटालङ्ङ्कारचन्द्राङ्कुर-
ज्योत्स्नानिर्भरपूरितत्रिजगतीगर्भावधूतो बहिः ।
स क्ष्वेळः क्वचन व्यलीयत महाशुण्डालशुण्डाहति-
क्षुभ्यत्क्षुद्रसरस्तरङ्गनिकरव्याकीर्णशैवालवत् ॥ २९ ॥
 
[commentary]
 
देशः एतत्पर्यन्तमेतावत्कालपर्यन्तं तव करुणया कृपया साधितमिव सम्पादितप्रायमेवेत्यर्थः । दुरूहे ऊहितुमशक्ये दुःसाधे साधयितुमशक्ये महत्यधिके अस्मिन् प्रविलये पुनः एतस्मिन्विनाशकाले त्वित्यर्थः । तव चरणयोः तत्त्वस्य स्वरूपस्य कथनमभिधानमिति यत् । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमात्मनि' इति नानार्थरत्नमाला । तदिदं मया कार्यं कर्तव्यमित्यर्थः । मम स्वरूपमेतावदिति कथनमेव मे रोचत इति भावः ॥ इतीति ॥ इति इत्थं निर्विण्णे खेदविशिष्ट इव गरुडध्वजे निवेदयति अभिधाने सति पार्वतीरमणः उमाकान्तः प्रहसन् हांस कुर्वन् सन्नित्यर्थः । पश्य तावदिति ब्रुवन् दक्षिणं बाहुं वामेतरभुजम् । 'वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्' इत्यमरः । प्रसारयन् प्रसारणं कुर्वन् सन् हालाहलं विषराजं अनुसस्मार स्मृतवानित्यर्थः ॥ सर्वेति ॥ सर्वे समस्ताः ये आतङ्का रोगाः सन्तापा इति वाऽर्थः । 'रुक्तापशङ्कास्वातङ्क' इत्यमरः । तेभ्यः विशङ्कः भयरहितः यः शङ्करः सदाशिवः तस्य या जटाः । 'व्रतिनां तु जटा सटा' इति कोशात् । जडीभूतशिरोरुहा इत्यर्थः । तसाम्, अलङ्कारः मण्डनभूतः यश्चन्द्राङ्कुरः बालचन्द्रः, तस्य या ज्योत्स्ना चन्द्रिका तथा निर्भरमत्यन्तं पूरिताः यास्तिस्रो जगत्यो लोकाः । 'जगती भुवने क्ष्मायाम्' इति विश्वः । तासां गर्भः कुक्षिदेशः । 'कुक्षिभ्रूणार्भकौ गर्भौ' इत्यमरः । तेन अवधूतः निष्कासितः सः क्ष्वेळः विषम् । 'क्ष्वेळस्तु गरळं विषम्' इत्यमरः । महान् यः शुण्डालो गजः तस्य शुण्डा करः तया आहतिराघातः तया क्षुभ्यत्तारळ्यं प्राप्नुवत् यत् । क्षुद्रसरः स्वल्पजलकासारः । 'कासारस्सरसी सरः' इत्यमरः ।
 
[^१] दक्षिणबाहुप्रसारणमभयप्रदानसूचकम् "मा भैष्टेति गिराविरास धुरि यो देवः" -- इत्यभियुक्तवचनमपि ॥