This page has been fully proofread once and needs a second look.

तुरीयाभ्वासः
 
३०३
 
इति निर्विण्ण इव निवेदयति गरुडध्वजे, प्रहसन् पार्वतीरमणः,
पश्य तावदिति ब्रुवन्, प्रसारयन् [^१]दक्षिणं बाहुम् अनुसस्मार हालाहलम् ।

 
सर्वात ङ्क विशङ्कशङ्करजटालङ्ङ्कारचन्द्राङ्कुर-

ज्योत्ला स्नानिर्भरपूरित त्रिजगतीगर्भावधूतो बहिः ।

स क्ष्
वेळः क्वचन व्यलीयत महाशुण्डालशुण्डाहति-

क्षुभ्यत्क्षुद्र सरस्तरङ्ग निकरव्याकीर्णशैवालवत् ॥ २९ ॥
 
.
 

 
[commentary]
 
देश:शः एतत्पर्यन्तमेतावत्कालपर्यन्तं तव करुणया कृपया साधितमिव सम्पादि-
तप्रायमेवेत्यर्थः । दुरूहे ऊहितुमशक्ये दुःसाधे साधयितुमशक्ये महत्यधिके
अस्मिन् प्रविलये पुनः एतस्मिन्विनाशकाले त्वित्यर्थः । तव चरणयोः तत्त्वस्य
स्वरूपस्य कथनमभिधान मिति यत् । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे परमा-
त्मनि' इति नानार्थ रत्नमाला । तदिदं मया कार्यं कर्तव्यमित्यर्थः । मम
स्वरूप मेतावदिति कथनमेव मेंमे रोचत इति भावः ॥ इतीति ॥ इति इत्थं निर्विण्णे
खेद विशिष्ट इव गरुडध्वजे निवेदयति अभिधाने सति पार्वतीरमण:णः उमाकान्तः
महं
प्रहसन् हांस कुर्वन् सन्नित्यर्थः । पश्य तावदिति ब्रुवन् दक्षिणं बाहुं वामेतर-
भुजम् । 'बामवामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्' इत्यमरः । प्रसारयन्
प्रसारणं कुर्वन् सन् हालाहलं विषराजं अनुसस्मार स्मृतवानित्यर्थः
॥ सर्वेति ॥ सर्वे समस्ताः ये आतङ्का रोगाः सन्तापा इति वाऽर्थः । 'रुक्ताप-
शङ्कास्वातङ्क' इत्यमरः । तेभ्य:यः विशङ्क:कः भयरहितः यः शङ्करः सदाशिवः तस्य
या जंटाः । 'व्रतिनां तु जटा सटा' इति कोशात् । जडीभूतशिरोरुहा इत्यर्थः ।
तसिग
तसाम्, अलङ्कारः मण्डनभूतः यश्चन्द्राङ्कुरः बालचन्द्रः, तस्य या ज्योत्स्ना
चन्द्रिका तथा निर्भरमत्यन्तं पूरिताः यास्तिस्रो जगत्यो लोका:काः । 'जगती भुवने
क्ष्मायाम्' इति विश्वः । तासां गर्भः कुक्षिदेशः । 'कुक्षिभ्रूणार्भकौ गर्भोभौ' इत्यमरः ।
तेन अवधूतः निष्कासितः सः क्ष्वेळ:ळः विषम् । 'क्ष्वेळस्तु गरळं विषम्' इत्यमरः ।
महानून् यः झुशुण्डालो गजः तस्य शुण्डा करः तया आहतिराघात:तः तया क्षुभ्यत्तार-
व्
ळ्यं प्राप्नुवत् यत् । क्षुदसर:द्रसरः स्वल्पजलकासार:रः । 'कासारस्सरसी सरः' इत्यमरः ।
 
-~-1.

 
[^१]
दक्षिण बांबाहुप्रसारणमभयप्रदान
सूचकम् " मा भैष्टेति गिराविरास धुरि यो देव: वः" -
- इत्यभियुक्तवचनमपि ॥