2023-08-20 09:23:40 by Bharadwajraki
This page has been fully proofread twice.
अक्षोभ्यं [^१]भिषजां शतैरविषयश्शस्त्रस्य वास्त्रस्य वा
दुस्साधं मणिमन्त्रयन्त्रशरणैर्दुर्निग्रहं योगिभिः ।
व्यामुह्यत्कमलासनं विनिपतद्देवर्षिसिद्धासुरं
निर्व्यापारितमद्भुजं च किमिदं किं नाम न ज्ञायते ॥ २७ ॥
यदादिष्टं पाल्यं जगदिति जगन्नाथ भवता
तदेतत्पर्यन्तं तव करुणया साधितमिव ।
दुरूहे दुस्साधे महति पुनरस्मिन् प्रविलये
ममेदं कार्यं यत्तव चरणयोस्तत्त्वकथनम् ॥ २८ ॥
[commentary]
वेत्यर्थः । मामपि परिवृत्य सर्वतो व्याप्येत्यर्थः । भूषणाम्बरादिषु प्रवृत्तमिदं किल समुद्रविनिर्गतं वस्तु भगवत्याः सुधामालिन्याः अमृतेश्वर्याः चरणारविन्दयोः यत् स्मरणं ध्यानं तस्य प्रभावः महिमा तस्मात् शनैर्मन्दं, किञ्चिद् अल्पं अपसृत्येव निवृत्त्येव विश्वं कृत्स्नमिदं भुवनमधरोत्तरयति व्यत्यासं प्रापयतीत्यर्थः ॥ अक्षोभ्यमिति ॥ भिषजां चिकित्सकानाम् । 'भिषग्वैद्यचिकित्सकौ' इत्यमरः । शतैः, अक्षोभ्यम् अनिवार्यं शस्त्रस्य आयुधस्य अस्त्रस्य ब्रह्मास्त्रादेर्वा । 'आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियाम्' इत्यमरः । अविषयः अगोचरं लक्ष्यं न भवतीति यावत् । मणयो गारुडमणिप्रभृतयः मन्त्राः विषघ्नशाबरादिमन्त्राः यन्त्राणि गारुडयन्त्राणि तेषां करणानि स्थापनधारणपारायणादिक्रियाः, तैः दुस्साधं नियन्तुमशक्यमित्यर्थः । अथवा निरसितुमशक्यमित्यर्थः । योगिभिः सनकादिभिः दुर्निग्रहं निग्रहीतुमशक्यमित्यर्थः । व्यामुह्यन् विमूर्च्छन् यः कमलासनो ब्रह्मा यस्मात्तथाभूतम्, विनिपतन्तः देवर्षयः सिद्धाः असुराश्च यस्मात्तथाभूतं निर्व्यापारितं गतचेष्टीकृतं विष्टपं लोकः यस्मात्तथाभूतं इदं परिदृश्यमानं अस्मदरिष्टं किं भवेत् किंनाम किंनामधेयकं न ज्ञायते न ज्ञातमित्यर्थः ॥ यदिति ॥ हे जगन्नाथ परशिव, भवता, जगद्भवनं पाल्यं रक्षणीयमिति मह्यमिति शेषः । यदादिष्टं यत्सन्दिष्टम्, तद्भवन्नि-
[^१] "किमिदं ? किं नाम ? न ज्ञायते" -- इत्युक्तिः न केवलं विषपरा, अपि तु विषतुल्यमायापरापि ॥ तस्याः स्वरूपस्य नाम्नश्चाज्ञानेनान्ततः अनिर्वचनीयताभ्युपगमात् ॥ प्रपञ्चः विषतुल्य इति वैराग्यमुत्पादयति ॥