This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
अक्षोभ्यं 'भिषजां शतैरविषयश्शस्त्रस्य वास्त्रस्य वा
दुस्साध मणिमन्त्रयन्त्रशरणैर्दुर्निग्रहं योगिभिः ।
व्यामुह्यत्कमलासनं विनिपतद्देवर्षिसिद्धासुरं
 
3 निर्व्यापारितमभुजं च किमिदं किं नाम न ज्ञायते ॥ २७ ॥
 
यदादिष्टं पाल्य जगदिति जगन्नाथ भवता
'तदेतत्पर्यन्तं तव करुणया सोधितमिव ।
दुरूहे दुस्सांधे महति पुनरस्मिन् प्रविलये
ममेदं कार्यं यत्तव चरणयोस्तत्त्वकथनम् ॥ २८ ॥
 
4
 
वेत्यर्थः । मामपि परिवृत्य सर्वतो व्याप्येत्यर्थः । भूषणाम्बरादिषु प्रवृत्त-
मिदं किल समुद्रविनिर्गतं वस्तु भगवत्याः सुधामालिन्या: अमृतेश्वर्याः चरणार-
विन्दयोः यत् स्मरणं ध्यानं तस्य प्रभावः महिमा तस्मात् शनैर्मन्दं, किञ्चिद् अल्पं
अपसृत्येव निवृत्त्येव विश्व कृत्स्नमिदं भुवनमघरोत्तरयति व्यत्यासं प्रापयतीत्यर्थः ॥
अक्षोभ्यमिति ॥ भिषां चिकित्सकानाम् । 'भिषग्वैद्यचिकित्सकौ' इत्यमरः ।
शतैः, अक्षोभ्यम् अनिवार्य शस्त्रस्य आयुधस्य अस्त्रस्य ब्रह्मास्त्रादेर्वा । 'आयुधं
तु प्रहरणं शस्त्रमस्त्रमथास्त्रियाम्' इत्यमरः । अविषय: अगोचरं लक्ष्यं न
भवतीति यावत् । मणयो गारुडमणिप्रभृतयः मन्त्राः विषनशाबरादिमन्त्राः यन्त्राणि
गारुडयन्त्राणि तेषां करणानि स्थापनधारणपारायणादिक्रियाः, तैः दुस्साघं निय-
न्तुम॑शक्यमित्यर्थः । अथवा निरसितुंमशक्यमित्यर्थः । योगिभिः सनकादिभिः
दुर्निग्रहं निग्रहीतुमशक्य मित्यर्थः । व्यामुह्यन् विमूर्च्छन् यः कमलासनो ब्रह्मा यस्मा-
तथा भूतम्, विनिपतन्तः देवर्षयः सिद्धाः असुराश्च यस्मात्तथाभूतं निर्व्यापारितं गत-
चेष्टीकृत विष्टप लोकः यस्मात्तथा भूत इदं परिदृश्यमानं अस्मदरिष्टं किं भवेत् किनाम
किनामधेयकं न ज्ञायते न ज्ञातमित्यर्थः ॥ यदिति ॥ हे जगन्नाथ परशिव, भवता,
जगद्भवनं पाल्य रक्षणीयमितिं मामिति शेषः । यदादिष्ट यत्सन्दिष्टम्, तद्भवन्नि-
..
 
1.. *" किमिदं ? किं नाम ?, न ज्ञायते" – इत्युक्तिः न केवलं विषपरा, अपि तु
विषतुल्य मायापराप ॥ तस्याः स्वरूपस्य नाम्नश्चाज्ञानेनान्ततः अनिर्वचनीयताभ्युप-
गमात् ॥ प्रपञ्चः विषतुल्य इति वैराग्यमुत्पादयति ॥