2023-08-20 09:11:55 by Bharadwajraki
This page has been fully proofread twice.
परमदारुणम्, विषयनिषेवणमिव व्यामोहकारणं भवत्पादाब्जवैमुख्यजं दुरितमिव भवत्प्रपदनैकभेषजम्, अव्यपदेश्यम्, अनिर्धार्यम्, अदूरविप्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुम्, अतर्कितोपनतमतीतभवप्रारब्धमिव समाक्रम्य जगत्त्रयम्, सन्निपात्य देवासुरान्, प्रक्षोभ्य कमलासनम्, परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भगवत्यास्सुधामालिन्याश्चरणस्मरणप्रभावादपसृत्येव किञ्चिदधरोत्तरयति विश्वमिदम् ।
[commentary]
दयः तेषां मुखमिव । 'पाषण्डास्सर्वलिङ्गिनः' इत्यमरः । अत्र सुधायां तु 'पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात्पाषण्डास्तेन हेतुना' इत्युक्तम् । दर्शनयोः दृशोः पन्थाः मार्गः तस्मात् दर्शनपथात् । 'ऋक्पूरब्धूः' (५.४.७४) इत्यादिना समासान्तोऽप्रत्ययः । परिहरणीयं परिहर्तव्यं दृष्टिप्रसारणाऽनर्हमिति भावः । प्रतारकाः वञ्चकाः तेषां सौहार्दमिव मैत्रीव । 'सुहृद्दुर्हृदौ मित्राऽमित्रयोः' (५.४.१५०) इति निपातनात्साधुः । परमदारुणमत्यन्तभयानकमित्यर्थः । 'घोरं भीमं भयानकम्' इत्यमरः । शब्दादिविषयसुखसेवनं यथा नरस्य व्यामोहकारणं तद्वदित्यर्थः । विषनिषेवणमिति पाठे विषं गरळं तस्य निषेवणं सेवनमिव व्यामोहः मूर्छा तस्य कारणं निमित्तमित्यर्थः । भवतः पादाब्जे पादकमले तयोर्वैमुख्यमभजनं वा तस्माज्जातं तज्जं दुरितमिव भवतः प्रपदनं प्रपत्तिः, प्रणिपात इति यावत् । तदेकं मुख्यं भेषजं प्रतीकारो यस्य तत्तथाभूतम् । यथा भवद्भजनाभावप्रयुक्तदुरितं भुवन्नमस्कारेणैव निरस्यते - तद्वदिदमपि तेनैव निवर्तनीयमिति
भावः । 'भेषजौषधभैषज्या' 'चिकित्सा रुक्प्रतिक्रिया' इति च अमरः । अव्यपदेश्यं नाम्ना इदमित्थमिति वक्तुमशक्यमित्यर्थः । अनिर्धार्यं स्वरूपेणापि इदम् इत्थमिति ज्ञातुमशक्यमित्यर्थः । अदूरं समीपप्रदेशः, तस्मिन् विप्रकर्षः, विबाधनं तेन । 'द्वयोस्तु स्याद्विप्रकर्षः व्यवधाने विबाधने' इति हेमचन्द्रः । विषमिति गरळमित्येवं व्यपदेष्टुं नाम्ना निर्देष्टुमित्यर्थः । [^१]अशक्यमिव । अतर्कितम्
अनूहितं यथा तथा उपनतः, सम्प्राप्तः अतीतः अतिक्रान्तो, यो भवः जन्म, प्राग्जन्मेति यावत् । तत्सम्बन्धि यत् प्रारब्धम् अवश्यभोक्तव्यकर्मेत्यर्थः । तदिव स्थितं दुर्निवारत्वादिति भावः । जगत्त्रयं त्रिभुवनं, समाक्रम्य, देवासुरान्, सन्निपात्य पातयित्वेत्यर्थः । कमलासनं, ब्रह्माणं प्रक्षोभ्य प्रधाव्य क्षोभं प्रापयित्वा
[^१] 'शक्यम्' इति मूलपाठः ।