This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
परमदारुणम्, विषयनिषेवणमिव व्यामोहकारणं भवत्पादाब्जवैमुख्यजं
दुरितमिव भवत्प्रपद नैक भेषजम्, अव्यपदेश्यम्, अनिर्धार्यम्, अदूरवि-
प्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुम्, अतर्कितोपनतमतीतभवप्रारब्ध-
मिव समाक्रम्य जगत्त्रयम्, सन्निपात्य देवासुरान्, प्रक्षोभ्य कमलासनम्,
परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भगवत्यास्सुधा मालिन्या-
श्चरणस्मरणप्रभावादपसृत्येव किञ्चिदरोत्तरयति विश्वमिदम् ।
 
३०१
 
मित्रयोः (5-4-15
 
;*
 

 
[commentary]
 
दयः तेषां मुखमिव । 'पाषण्डास्सर्वलिङ्गिनः' इत्यमरः । अत्र सुधायां तु
'पालनाच्च त्रयीधर्म:मः पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात्पाषण्डास्तेन हेतुना'
इत्युक्तम् । दर्शनयोः दृशोः पन्थाः मार्गः तस्मात् दर्शनपथात् । 'ऋक्पूरब्धू: '
धूः' (5-4-74५.४.७४) इत्यादिना समासान्तोऽप्रत्ययः । परिहरणीयं परिहर्तव्यं दृष्टिप्रसारणा-
नर्हमिति भावः । प्रतारकाः वञ्चकाः तेषां सौहार्दमिव मैत्रीव । 'सुहृद्दुर्हृदौ मित्राऽ-
मित्रयो:
मित्रयोः' (5-4-150५.४.१५०) इति निपातनात्साधुः । परमदारुणमत्यन्तभयानकमित्यर्थः ।
'घोरं भीमं भयानकम्' इत्यमरः । शब्दादिविषयसुखसेवनं यथा नरस्य व्यामोह -
कारणं तद्वदित्यर्थः । विषनिषेवणमिति पांपाठे विषं गरळं तस्य निषेवणं सेवनमिव
व्यामोह:हः मूर्छा तस्य कारणं निमित्तमित्यर्थः । भवतः पादाब्जे पादकमले तयोर्वे-
वैमुख्यमभजनं वा तस्माज्जातं तज्जं दुरितमिव भवतः प्रपदनं प्रपत्तिः, प्रणिपात इति
यावत् । तदेकं मुख्यं भेषजं प्रतीकारो यस्य तत्तथाभूतम् । यथा भवद्भजनाभाव-
प्रयुक्तदुरितं भुवन्नमस्कारेणैव निरस्यते - तद्वदिदमपि तेनैव निवर्तनीयमिति

भावः । 'भेषजौषधभैषज्या' 'चिकित्सा रुकुक्प्रतिक्रिया' इति च अमरः । अव्य-
पदेश्यं नाम्ना इदमित्थमिति वक्तुमशक्यमित्यर्थः । अनिर्धार्यं स्वरूपेणापि इदम्
इत्मिति ज्ञातुमशक्यमित्यर्थः । अदूरं समीपप्रदेशः, तस्मिन् विप्रकर्षः, विबानं
तेन । 'द्वयोस्तु स्याद्विप्रकर्षः व्यवधाने विबाधने' इति हेमचन्द्रः । विषमिति
गरळमित्येवं व्यपदेष्टुं नाम्ना निर्देष्टुमित्यर्थः । [^१]अशक्यमिव । अतर्कितम्
'
अनु

अनू
हितं यथा तथा उपनतः, सम्प्राप्तः अतीत:तः अतिक्रान्तो, यो भव:वः जन्म,
प्राग्जन्मेति यावत् । तत्सम्बन्धि यत् प्रारब्धम् अवश्यभोक्तव्यकर्मेत्यर्थः ।
तदिव स्थितं दुर्निवारत्वादिति भावः । जगत्त्रयं त्रिभुवनं, समाक्रम्य, देवासुरान्,
सन्निपात्य पातयित्वेत्यर्थः । कमलासनं, ब्रह्माणं प्रक्षोभ्य प्रधाव्य क्षोभं प्रापयित्वा
 
1,

 
[^१]
'शक्यम्' इति मूलपाठः ।