2023-06-05 16:40:36 by ambuda-bot
This page has not been fully proofread.
तुरीयाश्वासः
परमदारुणम्, विषयनिषेवणमिव व्यामोहकारणं भवत्पादाब्जवैमुख्यजं
दुरितमिव भवत्प्रपद नैक भेषजम् अव्यपदेश्यम्, अनिर्धार्यम्, अदूरवि-
प्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुम् अतर्कितोपनतमतीतभवप्रारब्ध-
मिव समाक्रम्य जगत्त्रयम्, सन्निपात्य देवासुरान्, प्रक्षोभ्य कमलासनम्,
परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भगवत्यास्सुधा मालिन्या-
चरणस्मरणप्रभावादपसृत्येव किञ्चिदघरोत्तरयति विश्वमिदम् ।
३०१
मित्रयोः (5-4-15
;*
दयः तेषां मुखमिव । 'पाषण्डास्सर्वलिङ्गिनः' इत्यमरः । अत्र सुधायां तु
'पालनाच्च त्रयीधर्म: पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात्पाषण्डास्तेन हेतुना'
इत्युक्तम्। दर्शनयोः दृशोः पन्थाः मार्गः तस्मात् दर्शनपथात् । 'ऋक्पूरब्धू: '
(5-4-74) इत्यादिना समासान्तोऽप्रत्ययः । परिहरणीयं परिहर्तव्यं दृष्टिप्रसारणा-
नर्हमिति भावः । प्रतारकाः वञ्चकाः तेषां सौहार्दमिव मैत्रीव । 'सुहृदुर्हृदौ मित्राऽ-
मित्रयो: ' (5-4-150) इति निपातनात्साधुः । परमदारुणमत्यन्तभयानकमित्यर्थः ।
'घोरं भीमं भयानकम्' इत्यमरः । शब्दादिविषयसुखसेवनं यथा नरस्य व्यामोह -
कारण तद्वदित्यर्थः । विषनिषेवणमिति पांठे विषं गरळं तस्य निषेवणं सेवनमिव
व्यामोह: मूर्छा तस्य कारणं निमित्तमित्यर्थः । भवतः पादाब्जे पादकमले तयोर्वे-
मुख्यमभजनं वा तस्माज्जातं तज्जं दुरितमिव भवतः प्रपदनं प्रपत्तिः, प्रणिपात इति
यावत् । तदेकं मुख्यं भेषजं प्रतीकारो यस्य तत्तथाभूतम् । यथा भवद्भजनाभाव-
प्रयुक्तदुरितं भुवन्नमस्कारेणैव निरस्यते -तद्वदिदमपि तेनैव निवर्तनीयमिति
भावः । 'भेषजौषधभैषज्या' 'चिकित्सा रुकुप्रतिक्रिया' इति च अमरः । अव्य-
पदेश्यं नाम्ना इदमित्थमिति वक्तुमशक्यमित्यर्थः । अनिर्धार्य स्वरूपेणापि इदम्
इत्यमिति ज्ञातुमशक्यमित्यर्थः । अदूरं समीपप्रदेशः, तस्मिन् विप्रकर्षः, विबाघनं
तेन । 'द्वयोस्तु स्याद्विप्रकर्षः व्यवधाने विबाधने' इति हेमचन्द्रः । विषमिति
गरळमित्येवं व्यपदेष्टुं नाम्ना निर्देष्टुमित्यर्थः । अशक्यमिव । अतर्कितम्
'
अनुहितं यथा तथा उपनतः, सम्प्राप्तः अतीत: अतिक्रान्तो, यो भव: जन्म,
प्राग्जन्मेति यावत् । तत्सम्बन्धि यत् प्रारब्धम् अवश्यभोक्तव्यकर्मेत्यर्थः ।
तदिव स्थित दुर्निवारत्वादिति भावः । जगत्त्रयं त्रिभुवनं, समाक्रम्य, देवासुरान्,
सन्निपात्य पातयित्वेत्यर्थः । कमलासनं, ब्रह्माणं प्रक्षोभ्य प्रधाव्य क्षोभं प्रापयित्वा
1, 'शक्यम्' इति मूलपाठः ।