This page has been fully proofread twice.

दमभिदधे । 'किमन्यदेष्टव्यम्[^१] । इदं किल किमपि विशृङ्खलं दुर्यश इव सम्भावितस्य सद्यःसमाक्रान्तविध्यण्डमण्डलं दुर्विदग्धस्य पाण्डित्यमिव तृणीकृतब्रह्मादिदैवतम्, नीचगतमैश्वर्यमिव निमिषार्धमपि क्षन्तुमक्षमम् बालिशराजोपसेविजीवनमिव प्रतिक्षणं चित्रीयमाणम्, पाशुपतावहेळनमिव भस्मीकृतजगत्त्रयम्, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रतीकारप्रकारम्, [^२]पाषण्डमुखमिव परिहरणीयं दर्शनपथात्, प्रतारकसौहार्दमिव
 
[commentary]
 
लक्ष्मीपतिना इदं वचनमभिदधे उक्तमित्यर्थः ॥ किमिति ॥ अन्यत्परिदृश्यमानादतिरिक्तम् । मयेति शेषः । किमादेष्टव्यं किं वक्तव्यमित्यर्थः ॥ इदमिति ॥ सम्भावितस्य बहुमानितस्य सम्बन्धि दुर्यशः अकीर्तिरिव विशृङ्खलं निर्निरोधं यथा तथा । सद्यस्तत्क्षणं समाक्रान्तं विध्यण्डस्य मण्डलं ब्रह्माण्डगोळकं येन तत्तथाभूतं दुर्विदग्धस्य अतिगर्वितस्य । 'दुर्विदग्धोऽतिगर्वितः' इति रुद्रः । पाण्डित्यं शास्त्रीयज्ञानमिवेत्यर्थः । तृणीकृतानि बल्बजीकृतानि ब्रह्मादिदैवतानि येन तत्तथाभूतं नीचः पृथग्जनः । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । ईश्वरः स्वामी । 'घनी स्वामी त्वीश्वरः पतिरीशिता' इत्यमरः । तस्य भावः ऐश्वर्यमिव निमिषार्धमपि कलामात्रमपि क्षन्तुं सोढुं अक्षमं अशक्यं बालिशो मूर्खः तथाभूतो यो राजा । 'मूर्खवैधेयबालिशाः' इत्यमरः । तस्योपसेवनं समीपसेवेत्यर्थः । प्रतिक्षणं चित्रीयमाणं वैचित्र्यभागित्यर्थः । पाशुपताश्शिवभक्ताः । शिवभक्तस्वरूपं स्कान्दे -- 'यो हस्तपीठे शिवलिङ्गनिष्ठं निवेश्य तल्लीनमनःप्रचारः । बाह्यक्रियासङ्कुलनिःस्पृहात्मा सम्पूजयत्यङ्ग स वीरशैवः ॥' इति । तेषामवहेळनमवज्ञेव । 'अवज्ञाऽवहेळनमसूर्क्षणम्' इत्याद्यमरः । भस्मीकृतं, जगतां लोकानां त्रयं येन तत्तथाभूतम् । तथा चोक्तं स्कान्दे 'भक्तानां गणमूर्तानां प्राणलिङ्गाङ्गसङ्गिनाम् । अतिथीनां द्विजाग्र्याणां प्राज्ञस्सम्मानमाचरेत् ॥ अन्यथा तु महाऽरिष्टमिति प्राह महेश्वरः ।' इति । क्षीणमायुर्जीवितकालः येषां ते तेषां आमयो रोगः । 'रोगव्याधिगदामयाः' इत्यमरः । तस्य औल्बण्यम् उपचय इव विफलीभवन् व्यर्थीभवन् प्रतीकारस्य चिकित्सायाः प्रकारो यस्य तत्तथाभूतं, पाषण्डा:डाः सर्वलिङ्गिनः बौद्धा-
 
[^१] 'आदेष्टव्यम्' इति व्याख्यापाठः ।
 
[^२] पाति रक्षतीति पाः त्रयीधर्मः, विश्वपाशब्दवत् विजन्तः, न तु क्विबन्तः, आकारलोपापत्तेः, पां खण्डयन्तीति पाखण्डाः, खस्य वर्णव्यत्ययेन षः, पाषण्डाः इत्यपि प्रयोगः ॥