This page has been fully proofread once and needs a second look.

नीलकण्ठविजये संव्याख्याने
 
दमभिदधे । 'किमन्यदेष्टव्यम्'[^१] । इदं किल किमपि विशृङ्खलं दुर्यश इव
सम्भावितस्य सद्यः समाक्रान्तविध्यण्ड मण्डलं दुर्विदग्धस्य पाण्डित्यमिव
तृणीकृतब्रह्मादिदैवतम् नीचगत मैश्र्यमिव निमिषार्धमपि क्षन्तुमक्षमम्
बालिशराजोपसेविजी वनमिव प्रतिक्षणं चित्रीयमाणम्, पाशुपतावहेळन-
मिव भस्मीकृतजगत्त्रयम्, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रती-
कारप्रकारम्, पाण्ड मुखमिव परिहरणीयं दर्शनपथात्, प्रतारकसौहार्दमिव

 
[commentary]
 
लक्ष्मीपतिना इदं वचनमभिदधे उक्तमित्यर्थः ॥ किमिति ॥ अन्यत्परिदृश्यमा-
नादतिरिक्तम् । मयेति शेषः । किमादेष्टव्यं किकिं वक्तव्यमित्यर्थः ॥ इदमिति ॥
सम्भावितस्य "बहुमानितस्य सम्बन्धि दुर्यश:शः अकीर्तिरिव विशृङ्खलं निर्निरोधं
यथा तथा । सद्यस्तत्क्षणं समाकाक्रान्तं विध्यण्डस्य मण्डलं ब्रह्माण्डगोळकं येन तत्त-
ता
थाभूतं दुर्विर्विग्धस्य अतिगर्वितस्य । 'दुर्विदग्धोऽतिगर्वितः' इति रुद्रः । पाण्डित्यं
शास्त्रीयज्ञानमिवेत्यर्थः । तृणीकृतानि बल्जीकृतानि ब्रह्मादिदैवतानि येन तत्तथा-
भूतं नीच: " पृथग्जन: 1 "विवर्ण: पामरो नीच: प्राकृतश्चचः पृथग्जनः । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः ।
ईश्वरः स्वामी। 'ध । 'घनी स्वामी त्वीश्वरः पतिरीशिता"' इत्यमरः । तस्य भावः ऐश्वर्य-
मिव निमिषार्धेमपि कलामात्रमपि क्षन्तुतुं सोढुं अक्षमं अशक्यं बांबालिशो मूर्खः तथा-
भूतो यो राजा । 'मूर्खवैधेय बालिशाः' इत्यमरः । तस्योपसेवनं समीपसेवेत्यर्थः ।
प्रतिक्षणं चित्रीयमाणं वैचित्र्यभागित्यर्थः । पाशुपताश्शिवभक्ताः । शिवभक्तस्वरूपं
स्को
स्कान्दे "-- 'यो हस्तपीठे शिवलिङ्ग निष्ठं निवेश्यं तल्लीनमनः प्रचारः । बाह्य-
क्रियासङ्कुलनि:निःस्पृहात्मा सम्पूजयत्यङ्ग स वीरशैवः ॥"' इति । तेषामवहेळन-
मवज्ञेव । 'अवज्ञाऽवहेळनमसूर्क्षणम्' इत्याद्यमरः । भस्मीकृतं, जगतां लोकानां त्र्यं
येन तत्तथाभूतम् । तथा चोक्तं स्कान्दे 'भक्तानां गणमूर्तानां प्राणलिङ्गाङ्गसङ्गिनाम् ।
अतिथीनां द्विजाग्र्याणां प्राज्ञस्सम्मानमाचरेत् ॥ अन्यथा तु महाऽरिष्टमिति प्रा
महेश्वरः ।' इति । क्षीणमायुर्जीवितकालः येषां ते तेषां आमयो रोगः । 'रोग-
व्याधिगंदामयाः' इत्यमरः । तस्य औल्बण्यम् उपचय इव विफलीभवन् व्यर्थीभवन्
प्रतीकारस्य चिकित्सायाः प्रकारोंरो यस्य तत्तथाभूतं, पाषण्डा: सर्वलिङ्गिन:नः बौद्धा-

 
2
 
'1.

 
[^१]
'आदेष्टव्यम्' इति व्याख्यापाठः ।
 
2.

 
[^२]
पाति रक्षतीति पाः त्रयीधर्मः, विश्वपाशब्दवत् विजन्तः, न तु क्विन्तः,
आकारलोपापत्तेः, पां खण्ड्यन्तीति पाखण्डाडाः, खस्य, वर्णव्यत्ययेन षः, पाषण्डा;डाः इत्यपि
प्रयोगः ॥