2023-06-05 16:40:36 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये संव्याख्याने
दमभिदधे । 'किमन्यदेष्टव्यम्' । इदं किल किमपि विलं दुर्यश इव
सम्भावितस्य सद्यः समाक्रान्तविध्यण्ड मण्डलं दुर्विदग्धस्य पाण्डित्यमिव
तृणीकृतब्रह्मादिदैवतम् नीचगत मैश्चर्यमिव निमिषार्धमपि क्षन्तुमक्षमम्
बालिशराजोपसेविजी वनमिव प्रतिक्षणं चित्रीयमाणम्, पाशुपतावहेळन-
मिव भस्मीकृतजगत्त्रयम्, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रती-
कारप्रकारम्, पापण्ड मुखमिव परिहरणीय दर्शनपथात्, प्रतारकसौहार्दमिव
लक्ष्मीपतिना इदं वचनमभिदधे उक्तमित्यर्थः ॥ किमिति ॥ अन्यत्परिदृश्यमा-
नादतिरिक्तम् । मयेति शेषः । किमादेष्टव्यं कि वक्तव्यमित्यर्थः ॥ इदमिति ॥
सम्भावितस्य "बहुमानितस्य सम्बन्धि दुर्यश: अकीर्तिरिव विलं निर्निरोधं
यथा तथा । सद्यस्तत्क्षणं समाकान्तं विध्यण्डस्य मण्डलं ब्रह्माण्डगोळकं येन तत्त-
ताभूतं दुदर्विग्धस्य अतिगर्वितस्य । 'दुर्विदग्धोऽतिगर्वितः' इति रुद्रः । पाण्डित्यं
शास्त्रीयज्ञानमिवेत्यर्थः । तृणीकृतानि बल्चजीकृतानि ब्रह्मादिदैवतानि येन तत्तथा-
भूतं नीच: " पृथग्जन: 1 "विवर्ण: पामरो नीच: प्राकृतश्च पृथग्जनः' इत्यमरः ।
ईश्वर स्वामी। 'धनी स्वामी त्वीश्वरः पतिरीशिता" इत्यमरः । तस्य भावः ऐश्वर्य-
मिव निमिषार्धेमपि कलामात्रमपि क्षन्तु सो अक्षम अशक्यं बांलिशो मूर्खः तथा-
भूतो यो राजा । 'मूर्खवैधेय बालिशाः इत्यमरः । तस्योपसेवनं समीपसेवेत्यर्थः ।
प्रतिक्षण चित्रीयमाणं वैचित्र्यभागित्यर्थः । पाशुपताश्शिवभक्ताः । शिवभक्तस्वरूपं
स्कोन्दे "यो हस्तपीठे शिवलिङ्ग निष्ठ निवेश्यं तल्लीनमनः प्रचारः । बाह्य-
क्रियासङ्कुलनि:स्पृहात्मा सम्पूजयत्यङ्ग स वीरशैवः ॥" इति । तेषामवहेळन-
मवज्ञेव। 'अवज्ञाऽवहेळनमसूक्षणम् इत्याद्यमरः । भस्मीकृत, जगतां लोकानां त्र्यं
येन तत्तथाभूतम् । तथा चोक्तं स्कान्दे 'भक्तानां गणमूर्तानां प्राणलिङ्गाङ्गसङ्गिनाम् ।
अतिथीनां द्विजाग्र्याणां प्राज्ञस्सम्मानमाचरेत् ॥ अन्यथा तु महाऽरिष्टमिति प्राइ
महेश्वरः ।' इति । क्षीणमायुर्जीवितकालः येषां ते तेषां आमयो रोगः । 'रोग-
व्याधिगंदामयाः' इत्यमरः । तस्य औवण्यम् उपचय इव विफलीभवन् व्यर्थीभवन्
प्रतीकारस्य चिकित्सायाः प्रकारों यस्य तत्तथाभूतं, पाषण्डा: सर्वलिङ्गिन: बौद्धा-
ॐ
2
'1. 'आदेष्टव्यम्' इति व्याख्यापाठः ।
2. पाति रक्षतीति पाः त्रयीधर्मः, विश्वपाशब्दवत् विजन्तः, न तु क्विनन्तः,
आकारलोपापत्तेः, पां खण्ड्यन्तीति पाखण्डा, खस्य, वर्णव्यत्ययेन षः, पाषण्डा; इत्यपि
प्रयोगः ॥