2023-08-20 07:06:47 by Bharadwajraki
This page has been fully proofread twice.
तथा हि ।
शिवा घोरा [^१]चेति श्रुतिषु विदिते ये मम तनू
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे ।
त्वमस्यर्धं देहे त्वमसि वदनं दक्षिणमिति
त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ ॥
किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमावल्लभेने-
[commentary]
प्राप्तोऽस्मि आत्मनः स्वस्मादपि प्रेमपदं प्रीतिस्थानं किं ? न किमपीति भावः । ममार्धमिदं अन्तकसूदनस्य देवि त्वमिव तदिति प्रतिपादयति ॥ शिवेति ॥ श्रुतिषु वेदेषु । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । इतिशब्दः काकाक्षिन्यायेन शिवापदघोरापदयोस्सम्बध्यते । तथा च शिवेति घोरा चेति मम परशिवस्य ये द्वे तनू शरीरे । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । विदिते प्रख्याते वर्तेते इत्यस्य गम्यमानत्वादप्रयोगः । 'बुद्धं बुषिधितं मनितं विदितं प्रतिपन्नमवसितावगते' इत्यमरः । 'तस्यैते तनुवौ घोरान्या शिवान्या तनूः' इति च श्रुतेः । तथोक्तं महाभारतेऽपि -- 'द्वे तनू तस्य देवस्य दैवज्ञा ब्राह्मणा विदुः । घोरा चान्या शिवा चान्या ते चैव शतधा पुनः ॥' इति । तयोः शिवाघोरयोर्मध्ये आद्या प्रथमोक्ता शिवाख्या, परमरमणीया अत्यन्तदर्शनीया मे मम मूर्तिश्शरीरं त्वमसि भवान् भवतीत्यर्थः । अर्धाङ्गीकृतदाम्पत्यस्य ममेति पदद्वयशेषः । देहे शरीरे अर्धमर्धांशः त्वमसि । तथाचोक्तं रहस्यागमे -- 'योऽयं चकास्ति गगनार्णवरत्नकान्तिर्योऽयं सुरासुरगुरुः पुरुषः पुराणः ।' यद्वा, उमया साकं विष्णोरभेदादिति भावः । मम दक्षिणं वदनं मुखं च त्वमसि । 'विष्णुरूपं मुखं रम्यं अघोरं दक्षिणं मम' इति चन्द्रिकोक्तेः । इति हेतोः । 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । त्वयि भवद्विषये अहं यावत् कियदित्यर्थः । प्रीये च सन्तुष्टो भवामीत्यर्थः । तावत्तत्सकलमित्यर्थः, 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः । तव विदितं बुद्धमित्यर्थः । 'बुद्धं बुधितं विदितं मनितं प्रतिपन्नमवसितावगते' इत्यमरः ॥ किमिति ॥ किमिच्छसि अपेक्षसे किं करणीयं कर्तव्यं
मयेत्यादिः । इति इत्थं उमाधवे गौरीवल्लभे अभिदघति वदति सति रमावल्लभेन
[^१] २३,२४,२५ रूपाणि विष्णुस्तुतिपद्यानि, २६ पद्यं चेश्वरप्रतिवचनरूपं परामृशन् को वा सुधीः हरिहरभेदं, हरिदेवीभेदं, द्वैततत्त्वं चाकलयेत् ? ॥
शिवा घोरा [^१]चेति श्रुतिषु विदिते ये मम तनू
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे ।
त्वमस्यर्धं देहे त्वमसि वदनं दक्षिणमिति
त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ ॥
किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमावल्लभेने-
[commentary]
प्राप्तोऽस्मि आत्मनः स्वस्मादपि प्रेमपदं प्रीतिस्थानं किं ? न किमपीति भावः । ममार्धमिदं अन्तकसूदनस्य देवि त्वमिव तदिति प्रतिपादयति ॥ शिवेति ॥ श्रुतिषु वेदेषु । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । इतिशब्दः काकाक्षिन्यायेन शिवापदघोरापदयोस्सम्बध्यते । तथा च शिवेति घोरा चेति मम परशिवस्य ये द्वे तनू शरीरे । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । विदिते प्रख्याते वर्तेते इत्यस्य गम्यमानत्वादप्रयोगः । 'बुद्धं बु
मयेत्यादिः । इति इत्थं उमाधवे गौरीवल्लभे अभिदघति वदति सति रमावल्लभेन
[^१] २३,२४,२५ रूपाणि विष्णुस्तुतिपद्यानि, २६ पद्यं चेश्वरप्रतिवचनरूपं परामृशन् को वा सुधीः हरिहरभेदं, हरिदेवीभेदं, द्वैततत्त्वं चाकलयेत् ? ॥