This page has not been fully proofread.

तथा हि
 

 
तुरीयांश्वासः
 
शिवा घोरा 'चेति श्रुतिषु विदिते ये मम तनू
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे ।
त्वमस्यधं देहे त्वमसि वदनं दक्षिणमिति
 
P
 
२९९
 
त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ ॥
किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमावल्लभेने-
प्राप्तोऽस्मि आत्मनः स्वस्मादपि प्रेमपदं प्रीतिस्थानं किं ? न किमपीति भावः ।
समार्घमिदं अन्तकसूदनस्य देवि त्वमिव तदिति प्रतिपादयति ॥ शिवेति ॥
श्रुतिषु वेदेषु । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । इतिशब्द: काकाक्षि-
न्यायेन शिवापदघोरापदयोस्सम्बध्यते । तथा च शिवेति घोरा चेति मम परशिवस्य
ये द्वे तनू शरीरे । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । विदिते प्रख्याते
वर्तेते इत्यस्य गम्यमानत्वादप्रयोगः । 'बुद्धं बुषितं मनितं विदितं प्रतिपन्नमव-
सिताव गते' इत्यमरः । 'तस्यैते तनुवौ घोसन्या शिवान्या तनूः' इति च श्रुतेः ।
तथोक्तं महाभारतेऽपि – 'द्वे तनू तस्य देवस्य दैवज्ञा ब्राह्मणा विदुः । घोरा
चान्या शिवा चान्या ते चैव शतधा पुनः ॥" इति । तयोः शिवाघोरयोर्मध्ये
आद्या प्रथमोक्ता शिवाख्या, परमरमणीया अत्यन्तदर्शनीया मे मम मूर्तिश्शरीरं
त्वमसि भवान् भवतीत्यर्थः । अर्घाङ्गीकृत दाम्पत्यस्य ममेति पदद्वयशेषः । देहे
शरीरे अर्धमशः त्वमसि । तथाचोक्तं रहस्यागमे - 'योऽयं चकास्ति गगनार्णव-
रलकान्तिर्योऽयं सुरासुरगुरुः पुरुषः पुराण: ।' यद्वा उमया साकं विष्णोरभेदादिति
भाव:- ) मम दक्षिण वदनं मुखं च त्वमसि । 'विष्णुरूपं मुखं रम्यं अघोरं दक्षिण
मुम इति चन्द्रिकोक्तेः । इति हेतोः । 'इति हेतुप्रकरणप्रकारा दिसमाप्तिषु'
इत्यमरः । त्वयि भवद्विषये अहं यावत् कियदित्यर्थः । प्रीये च सन्तुष्टो भवा-
मीत्यर्थः । तावत्तत्सकलमित्यर्थः, 'यावत्तावच साकल्येऽवधौ मानेऽवधारणे'
इत्यमरः । तव विदित बुद्धमित्यर्थः । 'बुद्धं बुधितं विदितं मनितं प्रतिपन्नमव-
सिताव गते' इत्यमरः ॥ किमिति ॥ किमिच्छसि अपेक्षसे किं करणीयं कर्तव्यं
मयेत्यादिः । इति इत्थं उमाधवे गौरीवल्लभे अभिदघति वदति सति रमावल्लभेन
 
1: 23, 24, 25 रूपाणि विष्णुस्तुतिपयांनि, 26 पद्यं चेश्वरप्रतिवचनरूपं परामृशन्
 
को वा सुधीः हरिहरमेदं, हरिदेवीभेदं, द्वैततत्त्वं चाकलयेत् ? ॥