This page has been fully proofread twice.

'यद्घोरघोरतररूप[^१]मघोरसंज्ञं
आवर्तितभ्रुकुटिभीषणमाननं ते ।
तद्दक्षिणं पशुपतेः परमं पदं मे
सांसारिकार्तिहरणं शरणं प्रपद्ये ॥ २५ ॥'
 
इति स्तुवन्तमिन्दिरारमणमिन्दुशेखरः परिरम्य बाहुभ्यामिदमाचचक्षे। 'भगवन् कमललोचन भवद्दर्शनेन परमामस्मि निर्वृतिं प्राप्तः, आत्मनोऽपि किमधिकं प्रेमपदम् ।
 
[commentary]
 
इत्यमरः । कचश्शिरोरुहः । 'कचः केशश्शिरोरुहः' इत्यमरः । तेषां संहतिर्बृन्दम् । 'स्त्रियां तु संहतिर्बृन्दम्' इत्यमरः । तस्याः यौ भेदौ प्रकारौ ताभ्यां भिन्नं परस्परं भेदवदिति तात्पर्यार्थः । तादृग्रूपमपि इह इदानीं एकं तावदभिन्नमेवेत्यर्थः । अर्धनारीश्वरतया अस्माकं प्रत्यक्षविषयत्वादिति भावः ॥ यदिति ॥ आवर्तिते सर्वतो विघूर्णिते ये भ्रुकुट्यौ अक्षिकनीनिके । 'तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्' इत्यमरः । ताभ्यां भीषणं दारुणम् । 'दारुणं भीषणं भीष्मम्' इत्यमरः । घोराणां भयङ्करप्रमथभूतपिशाचानां घोरतरमत्यन्तभयङ्करमित्यर्थः । तथाविधं रूपमाकारः यस्य तत्तथाभूतम् । अघोरमिति संज्ञा नामधेयं यस्य तत्तथाभूतं पशवो ब्रह्मादयः तेषां पतिः तस्य ते तव । 'ब्रह्माद्याः पशवः प्रोक्ताः शिवस्तेषां पतिः स्मृतः' इति पुराणोक्तेः । यदाननं मुखं वर्तते सांसारिकाणां संसारिणां सम्बन्धिनी या आर्तिः पीडा । 'आर्तिः पीडाधनुष्कोट्योः' इत्यमरः । तस्या हरणं नाशकम् अत एव परमुत्कृष्टं पदं प्राप्यस्थानभूतम् । 'पदं व्यवसितत्राणस्थान' इत्याद्यमरः । तच्छिवदक्षिणमुखं मम शरणं संरक्षकमिति । 'शरणं गृहरक्षित्रोः' इत्यमरः । प्रपद्ये प्रपन्नोऽस्मीत्यर्थः । तमन्तरा विपदामुद्धर्तुरभावादिति भावः ॥ इतीति ॥ इति इत्थं स्तुवन्तं स्तुतिं कुर्वन्तं इन्दिरारमणं श्रीहरिं, इन्दुशेखरः, श्रीचन्द्रमौळीश्वरः, बाहुभ्यां भुजाभ्यां, परिरभ्य आलिङ्ग्य, इदं वचनं आचचक्षे जगाद ॥ भगवन्निति ॥ हे भगवन् अप्रच्युतषाड्गुण्यशालिन् हे कमललोचन पुण्डरीकाक्ष भवतस्तव दर्शन प्रेक्षणं तेन परमां निरतिशयां निर्वृतिं सुखम् । 'निर्वृतिर्मनसस्तोषे मोक्षे प्रत्यागतावपि' इति नानार्थमाला ।
 
[^१] भक्तानामघोरः, घोराणां घोरः, घोरतरश्च दक्षिणमुखविशेषः इति ज्ञेयम् ।