This page has been fully proofread twice.

एकं च तावदभिधेयमपीह रूपं
वेणी जटेति कचसंहतिभेदभिन्नम् ॥ २४ ॥
 
[commentary]
 
उमाशब्दः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपञ्चैव हलन्तानां यथा वाचा निशा दिशा' इत्यनेन अवधिशब्दावयवावेत्युपसर्गावयवस्य अकारस्य लोपात् केवलं वलग्नवतंसादिशब्दवद्वधिशब्दः प्रयुक्त इति बोध्यम् । ननु ओंशब्दे सृष्ट्यादित्वमुपपादयता अ आदीति वक्तव्यमिति चेन्न । अ आदीति स्थितेऽपि अकाराकारयोः 'अकस्सवर्णे दीर्घः' (६.१.१०१) इति सूत्रेणाभिन्नमिति विग्रहः । परस्परमिति शेषः । तथा च अयमर्थः -- परमन्योन्यं सृष्ट्यादिसृष्ट्यवधितागुणमात्रभिन्नं युवयोरभिधानं नामधेयभूतं ओमित्युमेति शब्दद्वयं एकं एकविधावान्तरजातीयवर्णकदम्बकमित्यवधेयम् । इतिशब्दः 'काकाक्षिन्यायेन' उभयत्रान्वेति । तथा वेणीति जटेति च यौ कचसंहतेश्शिरोरुहसमुदायस्य भेदौ विशेषौ ताभ्यां भिन्नं भेदवदित्यर्थः ।अभिधेयं ओमुमाशब्दवाच्यार्थभूतं रूपं च स्वरूपमपीत्यर्थः । इह इदानीं तावदेकं अभिन्नमित्यर्थः । अस्माकमिदानीमभिन्नतया प्रत्यक्षविषयत्वादिति भावः । यद्वा, युवयोर्बिन्दोः भवतश्चेत्युभयोरभिधानं वाचकशब्द एकं एकविधवर्णविशिष्टमित्यर्थः । उभयोरकारोकारमकारात्मकत्वाविशेषादिति भावः ।
सृष्टिः निर्माणम् । 'सृष्टिः स्वभावे निर्माणे' इति भास्करः । तस्यामादिः तस्या आदिरिति वा प्रथमा वा कारणं वा उमेत्यर्थः । उमायाः पञ्चविंशतितत्त्वान्तर्गतप्राथमिकप्रकृतितत्त्वस्वरूपत्वादिति भावः । 'अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीम् इति प्रकृतेः महान्महतोऽहङ्कार इत्यादिश्रुतिस्मृतिभ्यां जगत्कारणत्वाद्वा आदित्वमिति भावः । पूर्वोक्तभास्करकोशात् सृष्टिः स्वभावः
तयैव अवधिर्मर्यादास्थानमित्यर्थः । 'परिच्छेदे बिलेऽवधिः' इत्यमरः । अवधित्वं तु परमेश्वरस्य 'यस्मात्परं नापरमस्ति किञ्चित्' इत्यादिश्रुतेः । एवं च सृष्ट्यादिश्च सृष्ट्यवधिश्चेति द्वन्द्वः, तयोर्भावस्तत्ता सैव गुणः विशेषणमित्यर्थः । 'त्यागादावप्रधाने च गुण' इति भास्करः । स एव गुणमात्रम्। 'मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः । गुणमात्रेण भिन्नं गुणेनैव परस्परं भेदवदित्यर्थः । अभिधेयं वाच्यार्थभूतोमामहेश्वराख्यवस्तु च ॥ वेणीति ॥ 'वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे' इत्यमरः ॥ जटेति ॥ 'शिखा चूडा केशपाशे व्रतिनां तु जटा सटा'