This page has been fully proofread once and needs a second look.

* तुरीयांश्वासः
 
18:2
 
एकं च तावदभिधेयमपीह रूपं
 

वेणी जटेति कचसंहतिभेदभिन्नम् ॥ २४ ॥
 
२९७
 

 
-
 
"
 

 
[commentary]
 
उमाशब्दः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपञ्चैव हलन्तानां यथा
वाचा निशा दिशा' इत्यनेन अवधिशब्दावयवावेत्युपसर्गावयवस्य अकारस्य
लोपात् केवलं वलम़ग्नवतंसादिशब्दवद्वधिशब्दः प्रयुक्त इति बोध्यम् । ननु ओंशब्दे
सृष्ट्यादित्वमुपपादयता अ आदीति वक्तव्यमिति चेन्न । अ आदीति स्थितेऽपि
अकाराकारयोः 'अकस्कारयोः 'अकस्सवर्णे दीर्घः' (6-1-101६.१.१०१) इति सूत्रेणाभिन्नमिति विग्रहः ।
परस्परमिति शेषः । तथा च अयमर्थः -- परमन्योन्यं सृष्ट्या दिसृष्टचट्यवधितागुण-
मात्रभिन्नं युवयोरभिधानं नामधेयभूतं ओमित्युमेति शब्दद्वयं एकं एकविधावान्तर-
जातीयवर्णैकदम्बक मित्यवधेयम् । इतिशब्द:दः 'काकाक्षिन्यायेन' उभयत्रान्वेति ।
तथा वेणीति जंटेति च यौ कचसंहतेश्शिरोरुहसमुदायस्य भेदौ विशेषौ ताभ्यां भिन्नं
भेदवदित्यर्थः । अभिधेयं ओमुमाशब्दवाच्यार्थभूतं रूपं च स्वरूपमपीत्यर्थः । इह्
इदानीनीं तावदेकं अभिन्नमित्यर्थः । अस्माकमिदानीमभिन्नतया प्रत्यक्षविषयत्वादिति
भावः । यद्वा, युवयोबिंर्बिन्दोः भवतश्चेत्युभयोरभिधानं वाचकशब्द एकं
एकविधवर्णविशिष्टमित्यर्थः । उभयोरकारोकारमकारात्मकत्वाविशेषादिति भावः ।

सृष्टिः निर्माणम् । 'सृष्टिः स्वभावे निर्माणे' इति भास्करः । तस्यामादिः तस्या
आदिरिति वा प्रथमा वा कारणं वा उमेत्यर्थः । उमायाः पञ्चविंशतितत्त्वान्तर्गत-
प्राथमिक प्रकृतितत्त्वस्वरूपत्वादिति भावः । 'अजामेकां लोहितशुक्लकृष्णां बहीं
ह्वीं प्रजोजां जनयन्तीम् इति प्रकृतेः महान्महतोऽहङ्कार इत्यादिश्रुतिस्मृतिभ्यां
जगत्कारणत्वाद्वा आदित्वमिति भावः । पूर्वोक्तभास्करकोशात् सृष्टि:टिः स्वभावः

तयैव अवधिर्मर्यादा स्थानमित्यर्थः । 'परिच्छेदे बिलेऽवधिः' इत्यमरः । अवधि:' इत्यमरः ।
अवधिव
त्वं तु परमेश्वरस्य 'यस्मात्परं नापरमस्ति किञ्चित्' इत्यादिश्रुतेः । एवं च
सृष्ट॑यट्यादिश्च' सृष्ट्यवधिश्चेति द्वन्द्वः, तयोर्भावस्तत्ता सैव गुणः विशेषणमित्यर्थः ।
'त्यागोगादावप्रधाने च गुण"' इति भास्करः । स एव गुणमात्रम्। 'मात्रं कार्त्स्न्ये-
ऽवधारणे' इत्यमरः । गुणमात्रेण भिन्नं गुणेनैव परस्परं भेदवदित्यर्थः । अभिधेयं
वाच्यार्थभूतीतोमामहेश्वराख्यवस्तु च ॥ वेणीति ॥ 'वेणिः प्रवेणी शीर्षण्यशिरस्यौ
विशदे कुचे' इत्यमरः ॥ जटेति ॥ 'शिखा चूडा केशपाशे व्रतिनां तु जटा सटा'
N - 38