This page has not been fully proofread.

* तुरीयांश्वासः
 
18:2
 
एकं च तावदभिधेयमपीह रूपं
 
वेणी जटेति कचसंहतिभेदभिन्नम् ॥ २४ ॥
 
२९७
 

 
-
 
"
 
उमाशब्दः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपञ्चैव हलन्तानां यथा
वाचा निशा दिशा' इत्यनेन अवधिशब्दावयवावेत्युपसर्गावयवस्य अकारस्य
लोपात् केवलं वलम़वतंसादिशब्दवद्वधिशब्दः प्रयुक्त इति बोध्यम् । ननु ओशब्दे
सृष्ट्यादित्वमुपपादयता अ आदीति वक्तव्यमिति चेन्न । अ आदीति स्थितेऽपि
अकासकारयोः 'अकस्सवर्णे दीर्घः' (6-1-101) इति सूत्रेणाभिन्नमिति विग्रहः ।
परस्परमिति शेषः । तथा च अयमर्थः - परमन्योन्यं सृष्ट्या दिसृष्टचवधितागुण-
मात्रभिन्नं युवयोरभिधानं नामधेयभूतं ओमित्युमेति शब्दद्वयं एकं एकविधावान्तर-
जातीयवर्णैकदम्बक मित्यवधेयम् । इतिशब्द: 'काकाक्षिन्यायेन' उभयत्रान्वेति ।
तथा वेणीति जंटेति च यौ कचसंहतेश्शिरोरुहसमुदायस्य भेदौ विशेषौ ताभ्यां भिन्नं
भेदवदित्यर्थः । अभिधेय ओमुमाशब्दवाच्यार्थभूतं रूपं च स्वरूपमपीत्यर्थः । इह्
इदानी तावदेक अभिन्नमित्यर्थः । अस्माकमिदानीमभिन्नतया प्रत्यक्षविषयत्वादिति
भावः । यद्वा युवयोबिंन्दोः भवतश्चेत्युभयोरभिधानं वाचकशब्द एकं
एकविधवर्णविशिष्टमित्यर्थः । उभयोरकारोकारमकारात्मकत्वाविशेषादिति भावः ।
सृष्टिः निर्माणम् । 'सृष्टिः स्वभावे निर्माणे' इति भास्करः । तस्यामादिः तस्या
आदिरिति वा प्रथमा वा कारणं वा उमेत्यर्थः । उमायाः पञ्चविंशतितत्त्वान्तर्गत-
प्राथमिक प्रकृतितत्त्वस्वरूपत्वादिति भावः । 'अजामेकां लोहितशुक्लकृष्णां बहीं
प्रजो जनयन्तीम् इति प्रकृतेः महान्महतोऽहकार इत्यादिश्रुतिस्मृतिभ्यां
जगत्कारणत्वाद्वा आदित्वमिति भावः । पूर्वोक्तभास्करकोशात् सृष्टि: स्वभावः
तयैव अवधिमर्यादा स्थानमित्यर्थः । 'परिच्छेदे बिलेऽवधि:' इत्यमरः ।
अवधिवतु परमेश्वरस्य 'यस्मात्परं नापरमस्ति किञ्चित्' इत्यादिश्रुतेः । एवं च
सृष्ट॑यदिश्च' सृष्टयवधिश्चेति द्वन्द्वः, तयोर्भावस्तता सैव गुणः विशेषणमित्यर्थः ।
'त्यागोदावप्रधाने च गुण" इति भास्करः । स एव गुणमात्रम्। 'मात्रं कार्ये-
ऽवधारणे इत्यमरः । गुणमात्रेण भिन्नं गुणेनैव परस्परं भेदवदित्यर्थः । अभिधेयं
वाच्यार्थभूतीमामहेश्वराख्यवस्तु च ॥ वेणीति ॥ 'वेणिः प्रवेणी शीर्षण्यशिरस्यौ
विशदे कुचे इत्यमरः ॥ जटेति ॥ 'शिखा चूडा केशपाशे व्रतिनां तु जटा सटा'
N - 38