This page has been fully proofread twice.

ओमित्युमेति[‌^१] युवयोरभिधानमेकं
सृष्ट्यादिसृष्ट्यवधितागुणमात्रभिन्नम् ।
 
[commentary]
 
परशिवस्य सान्निध्यमात्रतः सन्निधिमात्रादेव बिन्दोः बिन्दुसंज्ञिकायाः प्रकृतेरित्यर्थः । स्पन्दः चलनमेव इदं परिदृश्यमानं नामरूपात्मकं जगत्सर्वं जगद्भगवत्प्रकृत्यौपाधिकस्पन्दप्रयोज्यमिति भावः । तथा च साङ्ख्यसूत्रं 'सन्निधानादधिष्ठातृत्वं मणिवत्' । अस्यायमर्थः -- यथा अयस्कान्तमणेस्सन्निधिमात्रेणायश्चालकत्वं तथाऽऽदिपुंसस्सन्निधिमात्रेण संयोगमात्रेण महत्तत्त्वादिरूपेण प्रकृतिपरिणमनेऽधिष्ठातृत्वम् । तथैव पौराणिकवचनम् 'अय आत्मनि कर्तृत्वमकर्तृत्वञ्च संस्थितम् । निरिच्छत्वादकर्ताऽसौ कर्ता सन्निधिमात्रतः ॥ निरिच्छे संस्थिते रत्ने यथा लोहं प्रवर्तते । सत्तामात्रेण देवेन तथैवायं जगज्जनः ॥' इति । अद्वन्द्वं शीतोष्णसुखदुःखक्षुत्पिपासाजरामरणादिद्वन्द्वरहितमित्यर्थः । अपरिस्पन्दि परस्परसंयोगरहितमित्यर्थः । शाम्भवं शम्भुसम्बन्धि तत्पूर्वोक्तं द्वन्द्वं बिन्दुपुरुषयुग्मं नौमि नमस्करोमीत्यर्थः ॥ ओमिति ॥ सा च त्वं च युवां तयोः युवयोः प्रकृतिपुरुषसंज्ञकयोर्बिन्दोर्भवतश्चेत्युभयोरित्यर्थः । अभिधानमभिलापकनामेत्यर्थः । एकं एकजातीयवर्णकमित्यर्थः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । शिवस्य परब्रह्मणः ओमिति प्रणवो ब्रह्म निर्भयम् 'ओमित्येकाक्षरं ब्रह्म' इति श्रुतेः । प्रकृतिबिन्द्वादिसंज्ञिकायाः पार्वत्यास्तु उमेति नाम । 'बहु शोभमानामुमां हैमवतीम्' इति श्रुतेः । एवं च ओमित्युमेत्युभयोः शब्दयोरकारोकारमकारात्मकत्वाद्भेद इति भावः । ननु ओमिति नाम्नः अकाराद्यवयवकत्वं श्रूयते, उमेति नाम्नः अकारान्तावयवकत्वं श्रूयते, अतः एकजातीयवर्णगत्वेऽपि आनुपूर्वीभेदात्कथमनयोरभेद इति चेदत आह । सृष्ट्यादीति ॥ ओमिति शब्दे सृष्ट्यादित्वं वर्तते, कथमिति चेत् सृष्टौ शब्दनिष्पत्तौ अः अकार आदिर्यस्येत्यादिः ओंशब्दः । अः अकारः अवधिः अवसानं यस्येति व्युत्पत्त्या अकारावसानक
 
[^१] प्रथमव्याख्याने सृष्टिः - शब्दनिष्पत्तिः - तत्र, अः अकारः आदिः यस्य सः आदिः, सृष्टावादिः - सृष्ट्यादिः, अः अकारः, वधिः, अवधिः अवसानं यस्य सः अवधिः, शब्दनिष्पत्तौ ओंशब्दः अकारादिः, उमाशब्दः अकारान्तः, एतावानेव भेदः, अभिधेयं त्वेकम् इत्यर्थः ॥ द्वितीयव्याख्याने -- सृष्टिः, जगन्निर्माणं, तत्रादिः प्रथमा, कारणं पराशक्तिः प्रकृतिरूपा । सृष्टिः स्वभावः, तत्र, अवधिः मर्यादास्थानं, पुरुषस्यैव पराकाष्ठात्मकत्वात् ॥