2023-08-20 06:27:18 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये संव्याख्याने
  
  
  
  ओमित्युमेति'[^१] युवयोरभिधानमेकं
  
  
  
   
  
  
  
  
  
  
  
  सृष्ट्या दिसृष्ट्यवधितागुणमात्रभिन्नम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  परशिवस्य सान्निध्यमात्रतः सन्निधिमात्रादेव बिन्दो:दोः बिन्दुसंज्ञिकायाः
  
  
  
   प्रकृतेरित्यर्थः । स्पन्दः चलनमेव इदं परिदृश्यमानं नामरूपात्मकं जगत्सर्व
  
  
  
  वं जगद्भगवत्प्रकृत्यौपाधिकस्पन्दप्रयोज्यमिति भावः । तथा च साङ्ख्यसूत्रं
  
  
  
   'सन्निधानादधिष्ठातृत्वं मणिवत्' । अस्यायमर्थः -- यथा अयस्कान्तमणेस्सन्निधिमात्रेणाय-
  
  
  
  श्चालकत्वं तथाऽऽदिपुंसस्सन्निधिमात्रेण संयोगमात्रेण महत्तत्त्वादिरूपेण प्रकृतिप-
  
  
  
  रिणमनेऽधिष्ठातृत्वम् । तथैव पौराणिकवचनम् 'अय आत्मनि कर्तृत्वमकर्तृत्वञ्च
  
  
  
   संस्थितम् । निरिच्छत्वादकर्ताऽसौ कर्ता सन्निधिमात्रतः ॥ निरिच्छे संस्थिते रत्ने
  
  
  
   यथा लोहं प्रवर्तते । सत्तामात्रेण देवेन तथैवायं जगज्जनः ॥' इति । अद्वन्द्व
  
  
  
  वं शीतोष्णसुखदुःखक्षुत्पिपासाजरामरणा दिद्वन्द्वरहितमित्यर्थः । अपरिस्पन्दि परस्पर-
  
  
  
  संयोगरहितमित्यर्थः । शाम्भवं शम्भुसम्बन्धि तत्पूर्वोक्ततं द्वन्द्ववं बिन्दुपुरुषयुग्मं
  
  
  
   नौमि नमस्करोमीत्यर्थः ॥ ओमिति ॥ सा च त्वं च युवां तयोः
  
  
  
   युवयोः प्रकृतिपुरुषसंज्ञकयोर्बिन्दोर्भवतश्चेत्युभयोरित्यर्थः । अभिधानमभिलापक-
  
  
  
  नामेत्यर्थः । एककं एकजातीयवर्ण कमित्यर्थः । 'आख्याह्वे अभिधानं च नामधेय
  
  
  
  यं च नाम च' इत्यमरः । शिवस्य परब्रह्मणः ओमिति प्रणवो ब्रह्म निर्भयम् 'ओमित्ये-
  
  
  
  काक्षररं ब्रह्म' इति श्रुतेः । प्रकृतिबिन्द्वादिसंज्ञिकायाः पार्वत्यास्तु उमेति नाम ।
  
  
  
   'बहु शोभमानामुमां हैमवतीम्' इति श्रुतेः । एवं च ओमित्युमेत्युभयोः शब्दयो-
  
  
  
  रकारोकारमकारात्मकत्वाद्भेद इति भावः । ननु ओमिति नाम्नः अकाराद्यवयवक-
  
  
  
  त्वं श्रूयते, उमेतति नाम्नः अकारान्तावयवकत्वं श्रूयते, अतः एकजातीयवर्णगत्वेऽपि
  
  
  
   आनुपूर्वीभेदात्कथमनयोरभेद इति चेदत आह । सृष्ट्यादीति ॥ ओमिति
  
  
  
   शब्ददे सृष्टट्यादित्ववं वर्तते, कथमिति चेत् सृष्टौ शब्दनिष्पत्तौ अ:अः अकार आदिर्यस्ये-
  
  
  
  त्यादिः ओओंशब्दः । अः अकार:रः अवधिः अवसानं यस्येति व्युत्पत्त्या अकारावसानक
  
  
  
   
  
  
  
  •
  
  
  
   
  
  
  
  [^१] प्रथुभथमव्याख्याने सृष्टि:टिः - शब्दनिष्पत्तिः - तत्र, अः अकार:रः आदिः यस्य सः
  
  
  
   आदिः, सृष्टावादिः - सृष्ट्यादिः, अ:अः अकारः, वधिः, अवधि:धिः अवसानं यस्य सः अवधिः,
  
  
  
   शब्दनिष्पत्तौ ओंशब्दः अकारादिदिः, उमाशब्द:दः अकारान्तः, एतावानेव भेदः, अभिषेधेयं त्वेकम्
  
  
  
   इत्यर्थः ॥ द्वितीयव्याख्याने -- सृष्टिः, जगन्निर्माणणं, तत्रादिः प्रथमा, कारणं पराशक्तिः प्रकृ-
  
  
  
  तिरूपा । सृष्टिः स्वभावः, तंतत्र, अवधिः मर्यादास्थानं, पुरुषस्यैव पराकाष्ठात्मकत्वात् ॥
  
  
  
   
  
  
  
  200