This page has not been fully proofread.

नीलकण्ठविजये संव्याख्याने
ओमित्युमेति' युवयोरभिधानमेकं
 
सृष्ट्या दिसृष्ट्यवधितागुणमात्रभिन्नम् ।
 
परशिवस्य सान्निध्यमात्रतः सन्निधिमात्रादेव बिन्दो: बिन्दुसंज्ञिकायाः
प्रकृतेरित्यर्थः । स्पन्दः चलनमेव इदं परिदृश्यमानं नामरूपात्मकं जगत्सर्व
जगद्भगवत्प्रकृत्यौपाधिकस्पन्दप्रयोज्यमिति भावः । तथा च साङ्ख्यसूत्रं
'सन्निधानादधिष्ठातृत्वं मणिवत्। अस्यायमर्थः यथा अयस्कान्तमणेस्सन्निधिमात्रेणाय-
श्चालकत्वं तथाऽऽदिपुंसस्सन्निधिमात्रेण संयोगमात्रेण महत्तत्त्वादिरूपेण प्रकृतिप-
रिणमनेऽधिष्ठातृत्वम् । तथैव पौराणिकवचनम् 'अय आत्मनि कर्तृत्वमकर्तृत्वञ्च
संस्थितम् । निरिच्छत्वादकर्ताऽसौ कर्ता सन्निधिमात्रतः ॥ निरिच्छे संस्थिते रत्ने
यथा लोहं प्रवर्तते । सत्तामात्रेण देवेन तथैवायं जगज्जनः ॥ इति । अद्वन्द्व
शीतोष्णसुखदुःखक्षुत्पिपासाजरामरणा दिद्वन्द्वरहितमित्यर्थः । अपरिस्पन्दि परस्पर-
संयोगरहितमित्यर्थः । शाम्भवं शम्भुसम्बन्धि तत्पूर्वोक्त द्वन्द्व बिन्दुपुरुषयुग्मं
नौमि नमस्करोमीत्यर्थः ॥ ओमिति ॥ सा च त्वं च युवां तयोः
युवयोः प्रकृतिपुरुषसंज्ञकयोर्बिन्दोर्भवतश्चेत्युभयोरित्यर्थः । अभिधानमभिलापक-
नामेत्यर्थः । एक एकजातीयवर्ण कमित्यर्थः । 'आख्या अभिधानं च नामधेय
च नाम च' इत्यमरः । शिवस्य परब्रह्मणः ओमिति प्रणवो ब्रह्म निर्भयम् 'ओमित्ये-
काक्षर ब्रह्म' इति श्रुतेः । प्रकृतिबिन्द्वादिसंज्ञिकायाः पार्वत्यास्तु उमेति नाम ।
बहु शोभमानामुमां हैमवतीम्' इति श्रुतेः । एवं च ओमित्युमेत्युभयोः शब्दयो-
रकारोकारमकारात्मकत्वाद्भेद इति भावः । ननु ओमिति नाम्नः अकाराद्यवयवक-
त्वं श्रूयते, उमेत नाम्नः अकारान्तावयवकत्वं श्रूयते, अतः एकजातीयवर्णगत्वेऽपि
आनुपूर्वीभेदात्कथमनयोरभेद इति चेदत आह । सृष्ट्यादीति ॥ ओमिति
शब्द सृष्टयादित्व वर्तते, कथमिति चेत् सृष्टौ शब्दनिष्पत्तौ अ: अकार आदिर्यस्ये-
त्यादिः ओशब्दः । अः अकार: अवधिः अवसानं यस्येति व्युत्पत्त्या अकारावसानक
 
• प्रथुभव्याख्याने सृष्टि:- शब्दनिष्पत्तिः - तत्र, अः अकार: आदिः यस्य सः
आदिः, सृष्टावादिः सृष्ट्यादिः, अ: अकारः, वधिः, अवधि: अवसानं यस्य सः अवधिः,
शब्दनिष्पत्तौ ओंशब्दः अकारादि, उमाशब्द: अकारान्तः, एतावानेव भेदः, अभिषेयं त्वेकम्
इत्यर्थः ॥ द्वितीयव्याख्याने सृष्टिः, जगन्निर्माण, तत्रादिः प्रथमा, कारणं पराशक्तिः प्रकृ-
तिरूपा । सृष्टिः स्वभावः, तंत्र, अवधिः मर्यादास्थानं, पुरुषस्यैव पराकाष्ठात्मकत्वात् ॥
 
200