This page has been fully proofread twice.

वाग्भिर्गद्गदनिर्गताभिरखिलत्रय्यन्तसैद्धान्तिक-
स्रोतस्सारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम्[^१] ॥ २२॥
 
'सान्निध्यमात्रजो यस्य स्पन्दो बिन्दोरिदं जगत् ।
अद्वन्द्वमपरिस्पन्दि तद्द्वन्द्वं नौमि शाम्भवम् ॥ २३ ॥
 
[commentary]
 
भावैः पदार्थैरित्यन्वयः । 'भावः पदार्थे सत्तायाम्' इति भास्करः । तैरेव पुष्पैरिति व्यस्तरूपकमेतत् । परिचरन् पूजयन्नित्यर्थः । अथवा, अष्टभिः अष्टसङ्ख्यकैः आन्तरैर्हार्दैः भावैः भावनाविशेषैः पदार्थैरिति वाऽर्थः । ते च भावाः स्कान्दपुराणे आभ्यन्तरपूजाप्रकरणे दर्शिताः । तथा हि 'स्नानं समत्वसलिलेन हि पूर्णभावो वस्त्रं त्रिशक्तिगुणसंयुतयज्ञसूत्रम् । विद्या सुगन्धमिह भूतदयाक्षतांश्च
ग्रन्थादिपुष्पचयमर्पय नित्यमङ्ग ॥ प्रज्ञामनोऽहङ्कृतिचित्तधूपं श्रोत्रादिपञ्चेन्द्रियद्वीपमङ्ग । सद्वासनातैलयुतं च देहे जीवोपहारं सुखदुःखबाह्यम् ॥ गुणत्रयाख्यताम्बूलं प्राणार्पणनमस्कृतिम् । शान्तिपुष्पाञ्जलिं देहे चैकभावेन संयुतम् । एवमान्तरद्रव्यसम्भृतं शिवपूजनम्' इत्यादिनाऽभिहितम् । अहिंसादिभिरेव पुष्पैः व्यस्तरूपकमेतत् । अहिंसादिभिरित्यादिना ग्रन्थादिपरिग्रहः । परिचरन् पूजां कुर्वन्नित्यर्थः । परा निरतिशया या भक्तिः अनुरागस्सैव भारो धूरित्यर्थः । तेन नमिते प्रह्वीकृते कोटीरे शिरसि । 'शीर्षे किरीटे कोटीरम्' इति हलायुधः । प्रणामः प्रणतिमुद्राङ्कितः योऽञ्जलिः सङ्घट्टितहस्तयुगमित्यर्थः । 'पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । गद्गदं ग्रसितप्रत्यक्षरार्थं यथा तथा स्रुताभिर्विनिगताभिः अखिलास्समस्ता ये त्रय्यन्ताः तेषां सिद्धान्ता एव सैद्धान्तिकाः । स्वार्थे ठक्प्रत्ययः । निर्णीतार्था इत्यर्थः । 'समौ सिद्धान्तराद्धान्तौ' इत्यमरः । त एव स्रोतांसि प्रवाहास्तेषां सारमयीभिर्मुख्याभिरित्यर्थः । वाग्भिः वचनैः ज्योतिषां सूर्यादीनां ज्योतिः प्रकाशकम् । 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । तत् प्रादुर्भूतं मह इत्यर्थः । अस्तुत स्तुतिं चकारेत्यर्थः । 'ष्टुञ् स्तुतौ' इति धातोः कर्तरि लङ् । साङ्ख्यमतानुरोधेन स्तौति । सान्निध्येति ॥ यस्य
 
[^१] आभ्यन्तरं शिवपूजनं स्कान्दपुराणे विस्तृतं किञ्चिद्दर्शितं व्याख्याने "तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्" -- इति बृहदारण्यके ॥ "ज्योतिषैकेषामसत्यन्ने" इति च वैयासिकं सूत्रम् ॥