This page has been fully proofread once and needs a second look.

तुरीयाभ्वासः
 
वाग्भिर्गद्गद निर्गताभिरखिलत्रय्यन्तसैद्धान्तिक-

स्रोतस्सारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम्[^१] ॥ २२॥

 
'सान्निध्यमात्रजो यस्य स्पन्दो बिन्दोरिदं जगत् ।

अद्वन्द्वमपरिस्पन्दि तद्द्वन्द्वं नौमि शाम्भवम् ॥ २३ ॥
 
-
 

 
[commentary]
 
भावैः पदार्थैरित्यन्वयः । 'भाव:वः पदार्थे सत्तायाम्' इति भास्करः । तैरेव
पुष्पैरिति व्यस्तरूपकमेतत् । परिचरन् पूजयन्नित्यर्थः । अथवा, अष्टभिः अष्ट-
सङ्ख्यकैः आन्तरैर्हादैः भावैः भावनाविशेषैः पदार्थैरिति वाऽर्थः । ते च भावाः
स्कान्दपुराणे आभ्यन्तरपूजाप्रकरणे दर्शिताः । तथा हि 'स्नानं समत्वसलिलेन
हि पूर्णभावो वस्त्रं त्रिशक्तिगुणसंयुतयज्ञसूत्रम् । विद्या सुगन्धमिह भूतदयाक्षतांश्च

ग्रन्थादिपुष्पचयमर्पय नित्यमङ्ग ॥ प्रज्ञामनोऽहङ्कृतिचित्तधूपं श्रोत्रादिपञ्चेन्द्रिय-
द्वीपमङ्ग । सद्वांवासनातैलयुतं च देहे जीवोपहारं सुखदुःखबाह्यम् ॥ गुणत्रयाख्य-
ताम्बूलं प्राणार्पणनमस्कृतिम् । शान्तिपुष्पाञ्जलिं देहे चैकभावेन संयुतम् । एवमा-
न्तरद्रव्य सम्भृतं शिवपूजनम्' इत्यादिनाऽभि हितम् । अहिंसादिभिरेव पुष्पैः
व्यस्तरूपकमेतत् । अहिंसादिभिरित्यादिना ग्रन्थादिपरिग्रहः । परिचरन् पूजां
कुर्वन्नित्यर्थः । परा निरतिशया या भक्ति:तिः अनुरागस्सैव भारो धूरित्यर्थः । तेन
 
मिते
 
CAR
 
प्रह्वीकृते कोटीरे शिरसि । 'शीर्षे किरीटे कोटीरम्' इति हलायुधः ।
प्रणामः प्रणतिमुद्राङ्कितः योऽञ्जलिः सङ्घतिट्टितहस्तयुगमित्यर्थः । 'पाणिर्निकुब्ज:
जः प्रसृतिस्तौ युतावञ्जलिः पुमान्' इत्यमरः । गद्गदं ग्रसितप्रत्यक्षरार्थं यथा तथा
स्रुताभिर्विनिगताभि:भिः अखिलास्समस्ता ये त्रय्यन्ताः तेषां सिद्धान्ता एव सै-
द्धान्तिकाः । स्वार्थे ठक्प्रत्ययः । निर्णीतार्था इत्यर्थ:थः । 'समौ सिद्धान्तराद्धान्तौ'
इत्यमरः । त एवं स्रोतांसि प्रवाहास्तेषां सारमयीभिर्मुख्याभिरित्यर्थः । वाग्भिः
वचनैः ज्योतिषां सूर्यादीनां ज्योतितिः प्रकाशकम् । 'तस्य भासा सर्वमिदं विभाति'
इति श्रुतेः । तत् प्रादुर्भूतं मह इत्यर्थः । अस्तुत स्तुतिं चकारेत्यर्थः । 'ष्टुञ् स्तुती '
तौ' इति धातोः कर्तरि लङ् । साङ्ख्यमतानुरोधेन स्तौति । सान्निध्येति ॥ यस्य
 
:
 
*8
 
क्न 1: '

 
[^१]
स्भ्यन्तरं शिवपूजनं स्कान्दपुराणे विस्तृतं किञ्चिद्दर्शितं व्याख्याने "तद्देवा
ज्योतिषोंषां ज्योतिसंरायुर्होपासतेऽमृतम्'' " -- इति बृहदारण्यके ॥ "ज्योतिषैकेषामसत्यन्ने "
इति च वैयासिकेकं सूत्रम् ॥