2023-06-05 16:40:35 by ambuda-bot
This page has not been fully proofread.
तुरीयाभ्वासः
वाग्भिर्गद्गद निर्गताभिरखिलत्रय्यन्तसैद्धान्तिक-
स्रोतस्सारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम् ॥ २२॥
'सान्निध्यमात्रजो यस्य स्पन्दो बिन्दोरिदं जगत् ।
अद्वन्द्वमपरिस्पन्दि तद्द्वन्द्वं नौमि शाम्भवम् ॥ २३ ॥
-
भावैः पदार्थैरित्यन्वयः । 'भाव: पदार्थे सत्तायाम्' इति भास्करः । तैरेव
पुष्पैरिति व्यस्तरूपकमेतत् । परिचरन् पूजयन्नित्यर्थः । अथवा, अष्टभिः अष्ट-
सङ्ख्यकैः आन्तरैर्हादैः भावैः भावनाविशेषैः पदार्थैरिति वाऽर्थः । ते च भावाः
स्कान्दपुराणे आभ्यन्तरपूजाप्रकरणे दर्शिताः । तथा हि 'स्नानं समत्वसलिलेन
हि पूर्णभावो वस्त्रं त्रिशक्तिगुणसंयुतयज्ञसूत्रम् । विद्या सुगन्धमिह भूतदयाक्षतांश्च
ग्रन्थादिपुष्पचयमर्पय नित्यमङ्ग ॥ प्रज्ञामनोऽहकतिचित्तधूपं श्रोत्रादिपञ्चेन्द्रिय-
द्वीपमङ्ग । सद्वांसनातैलयुतं च देहे जीवोपहारं सुखदुःखबाह्यम् ॥ गुणत्रयाख्य-
ताम्बूल प्राणार्पणनमस्कृतिम् । शान्तिपुष्पाञ्जलिं देहे चैकभावेन संयुतम् । एवमा-
न्तरद्रव्य सम्भृतं शिवपूजनम्' इत्यादिनाऽभि हितम् । अहिंसादिभिरेव पुष्पैः
व्यस्तरूपकमेतत् । अहिंसादिभिरित्यादिना ग्रन्थादिपरिग्रहः । परिचरन् पूजां
कुर्वन्नित्यर्थः । परा निरतिशया या भक्ति: अनुरागस्सैव भारो धूरित्यर्थः । तेन
मिते
CAR
कृते कोटीरे शिरसि । 'शीर्षे किरीटे कोटीरम्' इति हलायुधः ।
प्रणामः प्रणतिमुद्राङ्कितः योऽञ्जलिः सङ्घतिहस्तयुगमित्यर्थः । 'पाणिर्निकुब्ज:
प्रतिस्तौ युतावञ्जलिः पुमान् इत्यमरः । गद्गदं ग्रसितप्रत्यक्षरार्थं यथा तथा
सताभिर्विनिगताभि: अखिलास्समस्ता ये त्रय्यन्ताः तेषां सिद्धान्ता एव सै-
द्धान्तिकाः । स्वार्थे ठक्प्रत्ययः । निर्णीतार्था इत्यर्थ: । 'समौ सिद्धान्तराद्धान्तौ'
इत्यमरः । त एवं स्रोतांसि प्रवाहास्तेषां सारमयीभिर्मुख्याभिरित्यर्थः । वाग्भिः
वचनैः ज्योतिषां सूर्यादीनां ज्योति प्रकाशकम् । 'तस्य भासा सर्वमिदं विभाति'
इति श्रुतेः । तत् प्रादुर्भूत मह इत्यर्थः । अस्तुत स्तुतिं चकारेत्यर्थः । 'टुञ् स्तुती '
इति धातोः कर्तरि लङ् । साङ्ख्यमतानुरोधेन स्तौति । सान्निध्येति ॥ यस्य
:
*8
क्न 1: 'आस्यन्तरं शिवपूजनं स्कन्दपुराणे विस्तृत किञ्चिदर्शितं व्याख्याने "तद्देवा
ज्योतिषों ज्योतिसंयुपासतेऽमृतम्'' - इति बृहदारण्यके ॥ "ज्योतिषैकेषामसत्यने "
इति च वैयासिके सूत्रम् ॥