This page has been fully proofread twice.

तदपि प्रवर्तयति मां
शङ्करपारम्यसङ्कथालोभः ॥ ६ ॥
 
देवानामपि दैवतं गुरुमपि प्राचां गुरूणामिह
श्रीमन्तं मदनान्तकं कथमपि स्तोतुं कृतो निश्चयः ।
तेन त्वां त्वरयामि भारति बलात्कृष्टापि दुष्टे पथि
प्रासेनोपहतापि जातु कुपिता मा स्म प्रसादं त्यजः ॥ ७ ॥
 
-------------[commentary]
 
कुधिय: कुत्सितज्ञाना: दुष्कवयः । न स्मरणीयाः न स्मर्तव्या इत्यर्थः । ननु बहुषु सुकविप्रणीतेषु सत्सु अपूर्वग्रन्थनिर्माणे किं निमित्तमत आह ॥ कतीति ॥ कति कवयस्सन्ति, कति कृतयस्सन्ति । गम्यतया सन्तीत्यस्याप्रयोगः । कवयः कृतयश्च कति लुप्ता विनष्टा आसन् । कवयः कृतयश्च कति चरन्ति प्राचुर्येण स्वाध्यायप्रवचनार्हाः प्रवर्तन्ते । कति शिथिला:लाः जीर्णप्राया वर्तन्ते । तदपि तथापि । शङ्करपारम्यसङ्कथालोभः शङ्करस्य पारम्यं परमभावस्सर्वोत्कर्ष इति यावत् । तस्य सङ्कथा कथनं, तस्यां लोभः आसक्ति:तिः । मां प्रवर्तयति प्रवृत्तं करोति । उदरभरणैकफले केवलनस्वर्णने प्रवृत्तस्य सरस्वत्यनुग्रहानौचित्यामपि शिवगुणैकवर्णने प्रवृत्ते स्वस्मिन्नितान्तकृपावतीमपि वाचं देवीं त्वरणप्रासादिभिर्मयि कोपः अनुग्रहत्यागश्च न कार्य इति प्रार्थयते ॥ देवानामिति ॥ देवानामिन्द्रा-
दीनामपि दैवतं पूज्यम् । प्राचां प्राचीनानां गुरूणामपि ब्रह्मसूर्यादीनामपि । गुरुं तत्त्वोपदेष्टारम् । 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ' इति श्रुतेः, 'इमं विवस्वते योगं प्रोक्तवानहम्' इति भ. गी 4-1 स्मृतेश्च। श्रीमन्तं, श्रीरणिमादिविभूतिरस्यातीति श्रीमान् । "तस्यास्त्यस्मिन्निति" पा. सू. 5.296.९६. मतुप्प्रत्ययः । तं मदनान्तकं मदनस्य मन्मथस्प अन्तक:कः नाशकः तं शिवम् । कथमपि कूच्छ्रेण, स्तोतुं, यतः, निश्चय उद्योगः व्यवसायः कृतः । मयेति शेषः । तेन कारणेन, हे भारति, वाग्देवि, त्वां त्वरयामि प्रोत्साहयामि । यद्वा त्वरयामि सम्भ्रमयामीत्यर्थ:थः । "ञि त्वरा सम्भ्रम[^१]" इति चौरादिकाण्णिच् । दुष्टे विकटाक्षरबन्धपारुष्यादिदोषवति । पथि काव्यमार्गे । बलाद्लात्कारत:
तः कृष्टापि मयेति शेषः । आकृष्टापीत्यर्थः, प्रासेन प्रास: वृत्त्यनुप्रासादिः स एव
 
[^१] घटादौ त्वरत्यन्तेषु त्रयोदशसु अनुदात्तेत्सु अन्तिमोऽयं धातुः - षित् ॥
 
,
 
: