2023-06-30 00:39:58 by Bharadwajraki
This page has not been fully proofread.
शङ्करपारम्यसङ्कथालोभः ॥ ६ ॥
देवानामपि दैवतं गुरुमपि प्राचां गुरूणामिह
श्रीमन्तं मदनान्तकं कथमपि स्तोतुं कृतो निश्चयः ।
तेन त्वां त्वरयामि भारति बलात्कृष्टापि दुष्टे पथि
प्रासेनोपहतापि जातु कुपिता मा स्म प्रसादं त्यजः ॥ ७ ॥
-------------
कुधिय: कुत्सितज्ञाना: दुष्कवयः । न स्मरणीयाः न स्मर्तव्या इत्यर्थः । ननु
दीनामपि दैवतं पूज्यम् । प्राचां प्राचीनानां गुरूणामपि ब्रह्मसूर्यादीनामपि । गुरुं
तत्त्वोपदेष्टारम् । 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै '
इति श्रुतेः, 'इमं विवस्वते योगं प्रोक्तवानहम्' इति भ. गी 4-1 स्मृतेश्च। श्रीमन्तं,
श्रीरणिमादिविभूतिरस्यातीति श्रीमान् । "तइस्यास्त्यस्मिन्निति" पा. सू. 5.296.
मतुष्प्रत्ययः । तं मदनान्तकं मदनस्य मन्मथस्प अन्तक: नाशकः तं शिवम् ।
कथमपि कूच्छ्रेण, स्तोतुं, यतः, निश्चय उद्योग व्यवसायः कृतः । मयेति
शेषः । तेन कारणेन, हे भारति, वाग्देवि, त्वां त्वरयामि प्रोत्साहयामि ।
यद्वा त्वरयामि सम्भ्रमयामीत्यर्थ: । "ञि त्वरा सम्भ्रम " इति चौरादिकाण्णिच ।
दुष्टे विकटाक्षरबन्धपारुष्यादिदोषवति । पथि काव्यमार्गे । बलाद्वलात्कारत:
कृष्टापि मयेति शेषः । आकृष्टापीत्यर्थः, प्रासेन प्रास: वृत्त्यनुप्रासादिः स एव
1. घटादौ त्वरत्यन्तेषु त्रयोदशसु अनुदात्तेत्सु अन्तिमोऽयं धातुः-षित् ॥
,
: