2023-08-19 09:44:38 by Bharadwajraki
This page has been fully proofread twice.
अपि च ।
वैराजशाक्वररथन्तरवामदेव्य-
कालेयराजनगवांव्रतरौहिणाद्यैः ।
तं सामभिर्बहुभिः ऋग्यजुषेण चोच्चैः
शौरिस्स्तुवन् पुरहरं शतशो व्यनंसीत् ॥ २१ ॥
भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः
कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम् ।
[commentary]
अपि चेति ॥ वैराजं वैराजसंज्ञिकसाम तच्च, शाक्वरं शाक्वरसंज्ञिकसाम तच्च, रथन्तरं रथन्तरसाम तच्च, वामदेव्यं वामदेव्यसाम तच्च, कालेयं कलिदृष्टसाम, राजनं राजनसाम, गवांव्रतमिति साम, रौहिणसाम तच्च, तान्येव आद्यानि मुख्यानि येषां तानि तथाभूतैः बहुभिः सामभिः बृहत्सामादिभिः, ऋक्च यजुश्च ऋग्यजुषं तेन । 'अचतुरविचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठी-
वपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुष --' (५.४.७७) इत्यादिना निपातनात्साधुः । उच्चैरधिकं, स्तुवन् स्तुतिं कुर्वन्, शौरिः श्रीहरिः पुरहरं तं परशिवं प्रति शतशः अनेकप्रकारैः व्यनंसीत् ननामेत्यर्थः ॥ भावैरिति ॥ अन्तराः बाह्याः त एव अन्तराः । स्वार्थेऽण्प्रत्ययः । 'अन्तरः परिधानीयस्वीयबाह्येषु वाच्यवत्' इति नानार्थमाला । तैः बाह्यैरित्यर्थः ।
पुष्पैरष्टभिः अष्टसङ्ख्याकैः भावैः स्तम्भपळयरोमाञ्न्चस्वेदवैवर्ण्यवेपथुवैस्वर्याश्रुलक्षणैः सात्त्विकभावैरित्यर्थः । सहितः इति शेषः । अहिंसा आदिर्येषां तैः पुष्पैश्च कुसुमैः । आदिपदेन सत्यास्तेयब्रह्मचर्यापरिग्रहग्रन्थातितिक्षोपरतिसमाधानानि ग्राह्याणि । 'अहिंसा प्रथमं पुष्पमिन्द्रियाणाञ्च निग्रहः । क्षान्तिः पुष्पं दयापुष्पं ज्ञानपुष्पमतः परम् ॥ तपःपुष्प सत्यपुष्पं भावपुष्पमथाष्टमम्' इत्यभियुक्तोक्तेः । परिचरन् परिचरणं कुर्वन्नित्यर्थः । अत्युत्कटमहोदर्शनात्सञ्जातसात्त्विकभावस्सन् हार्दैरहिंसादिभिः शिवं पूजयामासेति भावः । यद्वा, अन्तरः, अन्तरात्मा तत्र भवाः । आन्तराः अन्तरात्मस्था इत्यर्थः । 'तत्र भवः' (४.३.५३) इत्यण्प्रत्ययः । 'अन्तरभमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च'
इत्यमरः । तथाभूतैः अष्टभिः अष्टसङ्ख्याकैः, अहिंसादिभिः अहिंसाप्रभृतिभिः,
वैराजशाक्वररथन्तरवामदेव्य-
कालेयराजनगवांव्रतरौहिणाद्यैः ।
तं सामभिर्बहुभिः ऋग्यजुषेण चोच्चैः
शौरिस्स्तुवन् पुरहरं शतशो व्यनंसीत् ॥ २१ ॥
भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः
कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम् ।
[commentary]
अपि चेति ॥ वैराजं वैराजसंज्ञिकसाम तच्च, शाक्वरं शाक्वरसंज्ञिकसाम तच्च, रथन्तरं रथन्तरसाम तच्च, वामदेव्यं वामदेव्यसाम तच्च, कालेयं कलिदृष्टसाम, राजनं राजनसाम, गवांव्रतमिति साम, रौहिणसाम तच्च, तान्येव आद्यानि मुख्यानि येषां तानि तथाभूतैः बहुभिः सामभिः बृहत्सामादिभिः, ऋक्च यजुश्च ऋग्यजुषं तेन । 'अचतुरविचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठी-
वपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुष --' (५.४.७७) इत्यादिना निपातनात्साधुः । उच्चैरधिकं, स्तुवन् स्तुतिं कुर्वन्, शौरिः श्रीहरिः पुरहरं तं परशिवं प्रति शतशः अनेकप्रकारैः व्यनंसीत् ननामेत्यर्थः ॥ भावैरिति ॥ अन्तराः बाह्याः त एव अन्तराः । स्वार्थेऽण्प्रत्ययः । 'अन्तरः परिधानीयस्वीयबाह्येषु वाच्यवत्' इति नानार्थमाला । तैः बाह्यैरित्यर्थः ।
पुष्पैरष्टभिः अष्टसङ्ख्याकैः भावैः स्तम्भपळयरोमाञ्न्चस्वेदवैवर्ण्यवेपथुवैस्वर्याश्रुलक्षणैः सात्त्विकभावैरित्यर्थः । सहितः इति शेषः । अहिंसा आदिर्येषां तैः पुष्पैश्च कुसुमैः । आदिपदेन सत्यास्तेयब्रह्मचर्यापरिग्रहग्रन्थातितिक्षोपरतिसमाधानानि ग्राह्याणि । 'अहिंसा प्रथमं पुष्पमिन्द्रियाणाञ्च निग्रहः । क्षान्तिः पुष्पं दयापुष्पं ज्ञानपुष्पमतः परम् ॥ तपःपुष्प सत्यपुष्पं भावपुष्पमथाष्टमम्' इत्यभियुक्तोक्तेः । परिचरन् परिचरणं कुर्वन्नित्यर्थः । अत्युत्कटमहोदर्शनात्सञ्जातसात्त्विकभावस्सन् हार्दैरहिंसादिभिः शिवं पूजयामासेति भावः । यद्वा, अन्तरः, अन्तरात्मा तत्र भवाः । आन्तराः अन्तरात्मस्था इत्यर्थः । 'तत्र भवः' (४.३.५३) इत्यण्प्रत्ययः । 'अन्तर
इत्यमरः । तथाभूतैः अष्टभिः अष्टसङ्ख्याकैः, अहिंसादिभिः अहिंसाप्रभृतिभिः,