This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
अपि च ।
 
वैराजशाक्वररथन्तरवामदेव्य-

कालेयराजनगवांव्रतरौहिणाद्यैः ।

तं सामभिर्बहुभिः ऋग्यजुषेण चोच्चैः

शौरिस्स्तुवन् पुरहरं शतशो व्यनंसीत् ॥ २१ ॥

 
भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः

कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम् ।
 
अपि च ।
 
""
 

 
[commentary]
 
अपि चेति ॥ वैराजं वैराजसंज्ञिकसाम तच्च, शाक्वरं शाक्वरसंज्ञिकसाम तच्च,
रथन्तरं रथन्तरसाम तच्च, वामदेव्यं वामदेव्यसाम तच्च, कालेयं कलिदृष्टसाम,
राजनं राजनसाम, गवांत्व्रतमिति साम, रौहिणसाम तच्च, तान्येव आद्यानि
मुख्यानि येषां तानि तथाभूतैः बहुभिः सामभि:भिः बृहत्सामादिभि:भिः, ऋक्च यजुश्च
ऋग्यजुषं तेन । 'अचतुरविचतुरस्त्रीपुंसधेन्वनडुह र्वर्क्सामवाङ्मनसाक्षिध्भ्रुवदारगवोर्वष्ठी-
वपदृ

वपद
ष्ठीवनक्तन्द्रिदिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुष-
-' (5-4-77५.४.७७) इत्यादिना निपीत
पातनात्साधुः । उच्चैरधिकं, स्तुवन् स्तुतिं कुर्वन्, शौरि:
रिः श्रीहरिः पुरहरं तं परशिवं प्रति शतशः अनेक प्रकारैः व्यनंसीत् ननामेत्यर्थः ॥
भावैरिति ॥ अन्तरा:-राः बाह्याः त एव अन्तराः । स्वार्थेऽण्प्रत्ययः । 'अन्तरः
परिधानीय स्वीयबाह्येषु वाच्यवत्' इति नानार्थमाला । तैः बाघैह्यैरित्यर्थः ।
 
:
 
36
 
:
 

पुष्पैरष्टभिः अष्टसङ्ख्याकैः भावैः स्तम्भपळयरोमाञ्न्चस्वेद वैवर्ण्यवेपथुवैस्वर्याश्रुलक्षणैः
 
*
 
I
 
सात्त्विकुमाकभावैरित्यर्थ: 1थः । सहितः इति शेषः । अहिंसा आदिर्येषां तैः पुष्पैश्च
कुसुमैः । आदिपदेन सत्यास्तेय ब्रह्मचर्या परिग्रहग्रन्था तितिक्षोपरतिसमाधानानि
मायाणिः
ग्राह्याणि । 'अहिंसा प्रथमं पुष्पमिन्द्रियाणाञ्च निग्रहः । शाक्षान्तिः पुष्पं दयापुष्पं
ज्ञानपुष्पमतः परम् ॥ तपः पुष्प सत्यपुष्पं भावपुष्पमथाष्टमम्' इत्यभियुक्तोक्तेः ।
परिचरन् परिचरणं कुर्वन्नित्यर्थः । अत्युत्कटमहोदर्शन[नात्सञ्जात सात्त्विकभावस्सन्
हार्दैरहिंसादिभिः शिवं पूजयामासेति भावः । यद्वा, अन्तरः, अन्तरात्मा तत्र भवाः ।
आन्तराः अन्तरात्मस्था इत्यर्थः । 'तत्र भव:वः' (४.३.५३) (4-3-53) इत्यण्प्रत्ययः । 'अन्तरमव-
भवकाशावधिपरिधानान्तर्धि मेभेदताद्ध्यैदर्थ्ये । छिद्रात्मीयविनाब हिरवसरमध्ये ऽन्त्रात्मनि च'

इत्यमरः । तथाभूतैः अष्टभिः अष्ट सङ्ख्याकैः, अहिंसादिभिः अहिंसाप्रभृतिभिः,
 
*1.