This page has been fully proofread twice.

शाणोल्लीढशरन्मृगाङ्कशकलस्तोमाभिरामं महः
तत्पश्यन्निभृतं विनिद्रकमलद्राघीयसा चक्षुषा ।
साहस्राम्बुजपूजनव्रतसमाधित्सुः पुरा साहसं
चक्रे यद्गिरिशे स्वयं तदुचितं मेनेऽधुना माधवः ॥ २० ॥
 
[commentary]
 
तत्तथाभूतम् । अथवा, आविष्कृतं प्रकटितं पञ्चानां ब्रह्मणां स्वरूपं यस्य स तथाभूत इत्यर्थः । इत्युक्तेऽपि विरोधो बोध्यः । तत्परिहारस्तु द्वयोर्भावो द्विता सैव द्वैतम् । स्वार्थेऽण्प्रत्ययः । अविद्यमानं द्वैतं यस्य तत्तथाभूतं च तद्यद्ब्रह्म तत्स्वरूपमित्यर्थः । 'एकमेवाद्वितीयम्' इति श्रुतेः । आविष्कृतानि प्रकटीकृतानि पञ्चब्रह्मणां सद्योजातवामदेवाघोरतत्पुरुषेशानसंज्ञकानां पञ्चसङ्ख्याकानां ब्रह्मणां
स्वरूपाणि यस्य स तथाभूतमित्यर्थो बोध्यो भवतीति । अर्वाचां जघन्यानां प्रमाणानां शास्त्राणाम् । 'प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' इत्यमरः । अतिदूरमगोचरमित्यर्थः । 'नावेदविन्मनुते तं बृहन्तम्' इति श्रुतेः । आदिगिरां वेदानां विप्रकृष्टं दूरं न भवतीत्यविप्रकृष्टं सन्निहितदेशः तस्मिन् गोचरं विषयम् । 'स्याद्दूरं विप्रकृष्टकम्' इत्यमरः । अदूरविप्रकर्षगोचरमिति पाठे अविद्यमाने दूरविप्रकर्षे दैर्घ्यव्यवधाने यस्मिन् सः समीपदेशः तत्र गोचरमित्यर्थः । 'तं त्वौपनिषदं पूरुष पुराणं पृच्छामि' इति श्रुतेः । वेदैकवेद्यमिति भावः । दाक्षायणीरमणं पार्वतीपतिम् । साक्षाच्चकार प्रत्यक्षीचकारेत्यर्थः ॥ शाणेति ॥ शाणः घर्षणचक्रम् 'शाणस्तु निकषोपलः' इत्यमरः । तेन उल्लीढानि उल्लिखितानि यानि शरन्मृगाङ्कशकलानि शरत्कालचन्द्रखण्डानि तेषां स्तोमस्समूहः स इवाभिरामं मनोहरं तच्छिवरूपं महः तेजः । 'महस्तूत्सवतेजसोः' इत्यमरः । विनिंद्र विकसितं यत्कमलं तद्वद्द्राघीयसा अत्यन्तविपुलायतेन चक्षुषा नेत्रेण निभृतं निश्चलं यथा तथा पश्यन्, माधवः श्रीविष्णुः पुरा पूर्वमीश्वरभजनकाले साहस्राणि सहस्रसङ्ख्याकानि यानि अम्बुजानि तैर्यत्पूजने पूजा तस्य यद्व्रतं नियमः तत्समाधित्सुः समापयितुमिच्छुस्सन्नित्यर्थः । गिरिशे कैलासनाथविषये यत्साहसं सङ्ख्यापूरणार्थं स्वनेत्रकमलमुत्पाट्य भगवदर्पणरूपं यद्दुष्करं कर्मेत्यर्थः । चक्रे कृतवान् । तत्साहसमधुना उचितं सार्थकमेव मेने सम्यग्भगवत्स्वरूपदर्शनजनितहर्षलाभादिति भावः ॥