This page has been fully proofread once and needs a second look.

तुरीयाश्वासः
 
शाणोल्लीढशरन्मृगाङ्कशकलस्तोमाभिरामं
 
महः
 

तत्पश्यन्निभृतं विनिद्रकमलंगालद्राघीयसा चक्षुषा ।

साहस्राम्बुजपूजनव्रतसमाधित्सुः पुरा साहसं
 
चके य

चक्रे यद्
गिरिशे स्वयं तदुचितं मेनेऽधुना माधवः ॥ २० ॥
 
२९३
 
"
 
R
 

 
[commentary]
 
तत्तथाभूतम् । अथवा, आविष्कृतं प्रकटितं पञ्चानां ब्रह्मणां स्वरूपं यस्य स
तथाभूत इत्यर्थः । इत्युक्तेऽपि विरोधो बोध्यः । तत्परिहारस्तु द्वयोर्भावो द्विता
सैव द्वैतम् । स्वार्थेऽण्प्रत्ययः । अविद्यमानं द्वैतं यस्य तत्तथाभूतं च तद्यद्ब्रह्म
तत्स्वरूपमित्यर्थः । 'एकमेवाद्वितीयम्' इति श्रुतेः । आविष्कृतानि प्रकटीकृतानि
पञ्चब्रह्मणां सद्योजातवा मदेवाघोरतत्पुरुषेशानसंज्ञकानां पञ्चसङ्ख्याकानां ब्रह्मणां

स्वरूपाणि यस्य स तथाभूतमित्यर्थो बोध्यो भवतीति । अर्वाचां जघन्यानां
प्रमाणानां शास्त्राणाम् । 'प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु' इत्यमरः । अतिदूरम-
गोचरमित्यर्थः । -'नावेदविन्मनुते तं बृहन्तम्' इति श्रुतेः । आदिगिरां वेदानां
वि
विप्रकृष्टं दूरं न भवतीत्य विप्रकृष्टं सन्निहितदेश:शः तस्मिन् गोचरं विषयम् ।
'स्याद्दूदूररं विप्रकृष्टकम्' इत्यमरः । अदूरविप्रकर्षगोचरमिति पाठे अविद्यमाने दूरवि-
प्रकर्षे दैर्ध्घ्यव्यवधाने यस्मिन् सः समीपदेशः तत्र गोचरमित्यर्थः । 'तं त्वौप-
निषदं पूरुष पुराणंःणं पृच्छामिःमि' इति श्रुतेः । वेदैकवेद्यमिति भावः । दाक्षायणीरमणं
पार्वतीपतिम् । 'साक्षाच्चकार प्रत्यक्षीचकारेत्यर्थः ॥ शाणेति ॥ शाण:णः घर्षणचक्रम्
'शाणस्तु निकषोपलः' इत्यमरः । तेन उल्लीढानि उल्लिखितानि यानि शरन्मृगाङ्क -
शकलानि शरत्कालचन्द्रखण्डानि तेषां स्तोमस्समूह:हः स इवाभिरामं मनोहरं
तच्छिवरूपं महः तेज:-जः । 'महस्तूत्सवतेजसोः' इत्यमरः । विनिंद्र विकसि
यत्कमलैः तद्वद्द्वा
तं यत्कमलं तद्वद्द्राघीयसाःसा अत्यन्तविपुलायतेनः चक्षुषा नेत्रेण निभृतं निश्चलं यथा तथा
पश्यन्, मावः श्रीविष्णुः पुरा पूर्वमीश्वरभजनकाले साहस्राणि सहस्रसधाङ्ख्याकानि
यानि अम्बुजानि तैर्यत्पूजने पूजा तस्य यद्व्रतं नियम:मः तत्समाधित्सुः समाप-
यितुमिच्छुस्सन्नित्यर्थः । मिगिरिशे कैलासनाथविषये यत्साहसं सङ्ख्यापूरणार्
थं स्वनेत्रकमलमुत्पाटचट्य भगवदर्पणरूपं यद्दुष्करं कर्मेत्यर्थः । चक्रे कृतवान् । तत्साह-
समधुना उचितं सार्थकमेव मेने सम्यग्भगवत्स्वरूपदर्शन जनितहर्षलाभादिति भावः ॥
 
,