2023-08-19 09:17:34 by Bharadwajraki
This page has been fully proofread twice.
मिव चन्द्रिकासारम्, आवर्त्यपिण्डितमिव परमामृतम्, आसेचनकमासेचनकानाम्, आश्चर्यमाश्चर्याणाम्, मङ्गळं मङ्गळानाम्, आदिमादिमताम्, अवधिमवसीदताम्, आकरं विद्यानाम्, आलयं दयासौलभ्ययोः, अचिन्तनीयप्रभावमपि चिन्तनीयमखिललोकस्य, अद्वैतब्रह्मस्वरूपमप्याविष्कृतपञ्चब्रह्मरूपम्[^१], अतिदूरमर्वाचां प्रमाणानाम्, अविप्रकर्षगोचरमादिगिरां साक्षाच्चकार दाक्षायणीरमणम् ।
[commentary]
चन्द्रिकायास्सारः स्थिरांशः । 'सारो बले स्थिरांशे च इत्यमरः । तमिव स्थितम् । आवृत्य आवृत्तिं कृत्वेत्यर्थः । पिण्डितं चिक्कणीकृतं परमामृतमिव स्थितम् । यान्मुहुर्मुहुर्दृष्ट्वापि जना न तृप्यन्ति ते अत्र आसेचनकाः तेषामप्यासेचनकं अतिसुन्दरमित्यर्थः । 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः । आश्चर्याणां विस्मयकराणामप्याश्चर्यं विस्मयकरं विलक्षणभूषणादिमत्त्वादिति भावः । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । मङ्गळानां कल्याणानामपि मङ्गळं सर्वस्पृहणीयत्वादिति भावः । 'कल्याणं मंडळं शुभम्' इत्यमरः । आदिमतां निखिलकार्याणां, आदिं आदिकारणम् । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः । अवसीदतां विनश्यताम्, अवधिं परिसमाप्तिस्थानमित्यर्थः । 'यत्प्रयन्त्यभिसंविशन्ति' इति श्रुतेः । विद्यादीनां ऋग्वेदादीनाम्, आकरमुत्पत्तिस्थानम् । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । 'तस्मात्तेऽपानात्त्रयो वेदा अजायन्त', 'छन्दाँसि जज्ञिरे तस्मात्' इति श्रुतेः । दयासौलभ्ययोः कृपाभक्तपराधीनत्वयोरित्यर्थः । आलयं निकेतनम्, अखिललोकस्य निखिलजनस्य । 'लोकस्तु भुवने जने' इत्यमरः । अचिन्तनीयः अज्ञेयः प्रभावः स्वरूपं यस्य स तथाभूतमपि चिन्तनीयं ज्ञेयमित्युक्ते विरोधः । 'चिती संज्ञाने' इति धातोः 'तव्यत्तव्यानीयरः' (४.१.९६) इति अनीयर्प्रत्ययः । विरोधपरिहारस्तु अचिन्तनीयः प्रभावः प्रभवनमुत्पत्तिर्यस्य सः ।
'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । अद्वैतमद्वितीयं ब्रह्मणः स्वरूपं स्वभावः यस्य तत् । अथवा, अद्वैतं यद्ब्रह्म तस्य स्वरूपमपीत्यर्थः । आविष्कृतानि प्रकटीकृतानि पञ्चसङ्ख्याकानि ब्रह्मणः स्वरूपाणि यस्मिन्
[^१] अद्वैतब्रह्मरूपत्वे आविष्कृतसद्योजातादिपञ्चब्रह्मरूपता विरुद्धा । आभासस्तु एकमेव पञ्चधा विस्तृत पञ्चितं न तु पंचसंख्याकम् -- नापि एकं एकत्वसंख्यावत् -- प्रधानं मुख्यमित्यर्थः इति । विरोधाभासालङ्कारः सूचितः। ॥