2023-08-19 09:14:06 by Bharadwajraki
This page has been fully proofread once and needs a second look.
नीलकण्ठवजये संव्याख्याने
>
मिव चन्द्रिकासारम्, आवर्त्यपिण्डितमिव परमामृतम्, आसेचनकमासे-
चनकानाम्, आश्रचर्यमाश्चर्याणाम्, मङ्गळं मङ्गळानाम्, आदिमादि-
मताम्, अवधिमवसीदताम्, आकरं विद्यानाम् आलयं दयासौल-
भ्ययोयोः, अचिन्तनीयप्रभावमपि चिन्तनीय मखिललोकस्य, अद्वैतब्रह्म-
स्वरूप मप्याविष्कृतपञ्चब्रह्मरूपम्[^१] अतिदूरमर्वाचाचां प्रमाणानाम् अवि-
, अविप्रकर्षगो चरमादिगिरां साक्षाच्चकाएंर दाक्षायणीरमणम् ।
२९२
19
[commentary]
चन्द्रिकायास्सारः स्थिरांशशः । 'सारो बले स्थिरांशे च इत्यमरः । तमिव
स्थितम् । आवृत्य आवृत्तिं कृत्वेत्यर्थः । पिण्डितं चिक्कणीकृतं परमामृतमिव स्थितम् ।
यान्मुहुर्मुहुर्हृदृष्ट्वापि जना नःन तृप्यन्ति ते अत्र आसेचनकाः तेषामप्यासेचनकं
अतिसुन्दरमित्यर्थः । 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्' इत्यमरः ।
आश्चर्याणां विस्मयकराणामप्याश्चर्ययं विस्मयकरं विलक्षणभूषणादिमत्त्वादिति भावः ।
'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः । मङ्गळानां कल्याणानामपि मङ्गळं सर्वस्पृह -
णीयत्वादिति भावः । 'कल्याणणं मंडळं शुभम्' इत्यमरः । आदिमतां निखिल
कार्याणां, आदिदिं आदिकारणम् । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः ।
अवसीदतां विनश्यताम् अवधि, अवधिं परिसमाप्तिस्थानमित्यर्थः । 'यत्प्रयन्त्यभिसंविशन्ति'
इति श्रुतेः । विद्यादीनां ऋग्वेदादीनाम्, आकरमुत्पत्तिस्थानम् । 'खनिः स्त्रिया-
माकर स्यात्रः स्यात्' इत्यमरः । 'तस्मात्तेऽपानात्त्रयो वेदा अजायन्त', 'छन्दांदाँसि
जज्ञिरे तस्मात्' इति श्रुतेः । दयासौलभ्ययोः कृपाभक्तपराधीनत्वयोरित्यर्थः ।
आलयं निकेतनम्, अखिललोकस्य निखिलजनस्य । 'लोकस्तु भुवने जने' इत्यमरः ।
अचिन्तनीयः अज्ञेयः प्रभावः स्वरूपं यस्य स तथाभूतमपि चिन्तनीययं ज्ञेयमित्युक्ते
विरोध:धः । 'चिती संज्ञाने' इति धातोः 'तव्यत्तव्यानीयर:रः' (4-1-96४.१.९६) इति अनीयर्-
प्रत्ययः । विरोधपरिहारस्तु - अचिन्तनीय:यः प्रभावः प्रभवनमुत्पत्तिर्यस्य सः
।
'भावस्सत्तास्वभावाभिप्राय चेष्टात्मजन्मसु?' इत्यमरः । अद्वैतम द्वितीयं ब्रह्मणः
स्वरूपं स्वभावः यस्य तत् । अथवा, अद्वैतं यद्ब्रह्म तस्य स्वरूपमपीत्यर्थः ।
आविष्कृतानि प्रकटीकृतानि पञ्चसङ्ख्याकानि ब्रह्मणः स्वरूपाणि यस्मिन्
1.
[^१] अद्वैत ब्रह्मरूपत्वे आविष्कृतसद्योजाता दिपञ्चब्रह्मरूपता विरुद्धा । आभासस्तुं
तु एकमेव पञ्चधा विस्तृत पंश्पञ्चितीतं न तु पंचसंख्याकम् -- नापि एककं एकत्वसंख्यावत् -- प्रधान
नं मुख्य मित्यर्थः इति । विरोधाभासो
सालङ्कारः सूचितः। ॥