This page has been fully proofread twice.

करणवासनाष्टकम् आस्तीर्णात्मतन्त्रमहातल्पकल्पितम् अखिलतत्त्वपथोत्तीर्णमानन्दमयमहार्हमासनम्, अन्वास्यमानमखिललोकमातृकया
संविदानन्दघनीभावसम्पन्नविग्रहया कादम्बिन्येव करुणारसपूर्णया आत्मविद्ययेव सादरमालिङ्गन्त्या समानगुणरूपसौन्दर्यशीलया भगवत्या सर्वमङ्गळया, सुखविश्रान्तमिव शरन्मेघमण्डलम्, सुधासारघटितमिव कर्पूरपरागसञ्चयम्, अतिकोमलमिव स्फटिकाचलम्, आदृतघनीभाव-
 
[commentary]
 
तत्त्वविवेके -- 'लोकपुत्रघनग्रामदारशास्त्रगृहेषु च । देहे च वासनां त्यक्त्वा सुखी भवति नान्यथा ॥' इति । आस्तीर्णं परिस्तीर्णं आत्मनामन्तरात्मजीवात्मपरमात्मनां त्रयमेव महातल्पं उत्कृष्टशय्या तेन कल्पितम् विरचितं अखिलानां ये तत्त्वानां पृथिवीतत्त्वजलतत्त्वतेजस्तत्त्ववायुतत्त्वाकाशतत्त्वानां पन्थानो मार्गाः तानुत्तीर्णं उल्लङ्घ्य तिष्ठन्तमित्यर्थः । आत्मत्रैविध्यं पृथिव्यादितत्त्वपञ्चकं संन्यासिसन्ध्यावन्दनप्रकरणे स्पष्टमुक्तम् । विस्तरभयान्नेह तद्विविच्यते । आनन्दमयम्
आनन्दस्वरूपम्, अत एव महार्हमत्युत्तममासनं भद्रासनमध्यासीनं आसने तिष्ठन्तमित्यर्थः । 'अधिशीङ्स्थासां कर्म' (१.४.४६) इत्याधारस्य कर्मत्वम् । अखिललोकांना मातृकया जनन्या संवित् ज्ञानमानन्दश्चेत्येतयोर्यो घनीभावः निरन्तरीभवनमित्यर्थः । 'घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे' इत्यमरः । यद्वा घनीभावः मूर्तीभवनमित्यर्थः । तेन सम्पन्नो विग्रहः कायो यस्यास्सा तथाभूतया करुणा कृपा सैव रसः द्रवद्रव्यम् । 'गुणे रागे द्रवे रसः' इत्यमरः । तेन पूर्णया भरितया कादम्बिन्या मेघमालयेव स्थितया । 'कादम्बिनी मेघमाला' इत्यमरः । सादरं सप्रेम यथा तथा आलिङ्गन्त्या आश्लिष्यन्त्या, समानानि रूपगुणसौन्दर्यशीलानि यस्यास्सा । रूपं स्वभावे शुक्लादौ इति भास्करः । 'रूपं स्वभावे सद्वृत्ते' इत्यमरश्च । तथाभूतया भगवत्या महामहिमशालिन्या सर्वमङ्गळया पार्वत्या । 'रुद्राणी शर्वाणी सर्वमङ्गळा' इत्यमरः । अन्वास्यमानम् उपास्यमानम् । सुखमनायासं यथा तथा विश्रान्तं विश्रमप्राप्तमित्यर्थः । शरदि शरत्काले, यो मेघमण्डलः तमिव स्थितम् । किंच सुधाया अमृतस्य आसारो धारासम्पातः तेन सङ्घटितः गोळकीकृतः तथाभूतं कर्पूरस्य परागा धूळयः तेषां सञ्चयस्समूहः तमिव स्थितं अतिकोमलोऽत्यन्तमृदुलः । 'कोमलं मृदुलं मृदु' इत्यमरः । तथाभूतं स्फटिकाचलमिव स्थितम् । आदृतः अङ्गीकृतः घनीभावः सान्द्रीभवनं येन स तथाभूतम् ।