2023-08-19 07:43:29 by Bharadwajraki
This page has been fully proofread twice.
स्फटिकोपलन्यायेन मञ्जीरफणिफणामणिप्रभापुञ्जपिञ्जरचरणारविन्देनातिपचेळिमभाग्ययोग- निर्मलैरन्तःकरणैरिव चरणलग्नैस्समाधिषु योगिनां पञ्चभिरक्षरैश्शिवसूत्रस्य[^१] पर्यवसितैरिव सव्यापसव्ययोः पादयोरतिसुन्दरैर्नखैरवतंसयन्तमादिभारतीचिकुरबन्धम्, अध्यासीनमधःकृतान्तः-
[commentary]
'कृत्तिः स्त्री' इति च अमरः । चिन्मये ज्ञानविकारे अत एवातिनिर्मलेऽतिस्वच्छे, वपुषि शरीरे, अभिसंवीतम् आच्छन्नमित्यर्थः । जपाकुसुमं बन्धूकपुष्पम् । 'बन्धुजीवकबन्धूकौ जपा स्यादथ वैतस' इत्यजयः । तत्पार्श्वगतः यः स्फटिकोपलः स्फटिकमणिः तन्न्यायेन तद्रीत्येति तात्पर्यार्थः । मञ्जीराः नूपुरस्थानीयाः ये फणिनस्सर्पाः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' 'चक्षुःश्रवाः काकोदरः फणी' इति च अमरः । तेषां ये फणामणिराजाः मणिश्रेष्ठाः तेषां याः प्रभाः कान्तयः तासां पुञ्जः राशिः तेन पिञ्जरे अरुणे चरणारविन्दे यस्य स तथाभूतम् । अतिपचेळिमं अत्यन्तकालवशात्परिपक्वं यद्भाग्यम् अदृष्टम्, तेन योगेन यमनियमाद्यनुष्ठानेन च निर्मलानि रागादिमलरहितानि तथाभूतैः । अत एव समाधिषु ध्यानेषु, चरणयोः पादयोः, लग्नानि सङ्क्रान्तानि तथाभूतैः । महायोगिनां अन्तःकरणैः मनोभिरिव स्थितैः । शिवमन्त्रस्य रुद्राध्यायप्रसिद्धमन्त्रराजस्येत्यर्थः । पर्यवसितैः परिणतैः, पञ्चभिः पञ्चसङ्ख्याकैः, अक्षरैः वर्णैरिव स्थितैः । अतिसुन्दरैः अत्यन्तमनोहरैः सव्यापसव्ययोर्वामदक्षिणयोः । 'वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्' इत्यमरः । पादयोश्चरणयोः नखैः । 'नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । आदिमाः भारत्यः आदिवचनानि आदिगिरः । वेदा इति तात्पर्यार्थः । 'अथ भारती । वचने च सरस्वत्यां पक्षिवृत्तिप्रभेदयोः' इति हेमचन्द्रः । स्त्रीप्रत्ययबलात् स्त्रीव्यक्तयः व्यज्यन्ते । तासां चिकुराः चिकुरप्रायाः उपनिषदः । 'चिकुरः कुन्तलो वालः कचः केशश्शिरोरुहः'
इत्यमरः । त एव बन्धः अधिष्ठानम् । 'बन्धकं व्यसने चेतःपीडाधिष्ठानमाधयः' इत्यमरः । यद्वा चिकुरबन्धः चिकुराधिष्ठानमित्यर्थः । एवञ्चादिमभारतीचिकुरबन्धमित्यस्य वेदशिर इति फलितार्थः । तमवतंसयन्तं विभूषयन्तम् । अवतंसयन्तमित्यत्र 'तत्करोति' इति णिजन्ताल्लटश्शत्रादेशः । वेदप्रतिपाद्यमिति भावः । अधःकृतं लोकवासनादीनामष्टकं येन तत् तथाभूतम् । वासनाष्टकमुक्तं
[^१] रुद्राध्यायः पञ्चाक्षरमन्त्रसारः, सच उपनिषद्रूपादिभारतीचिकुरबन्धावतंस इति पञ्चाक्षरीजपमहिमानमभिव्यनक्ति ॥