This page has not been fully proofread.

नीलकण्ठविजये सिव्याख्याने
 
"
 
स्फटिकोपलन्यायेन मञ्जीरफणिफणा मणिप्रभापुञ्जपिञ्जरचरणारविन्दे-
नातिपचेकिमभाग्ययोगनिर्मलैरन्तः करणैरिव चरणलमैस्समाधिषु योगिनां
पञ्चभिरक्षरश्शिवसूत्रस्य पर्यवसितैरिव सव्यापसव्ययोः पादयोरति-
सुन्दरैर्नखैरवतंसयन्त मादिभारती चिकुरबन्धम् अध्यासीनमधः कृतान्त:-
'कृत्तिः स्त्री' इति च अमरः । चिन्मये ज्ञानविकारे अत एवातिनिर्मलेऽतिस्वच्छे,
वपुषि शरीरे, अभिसंवीतम् आच्छन्नमि॒त्यर्थः । जपाकुसुमं बन्धूकपुष्पम् । 'बन्धु-
जीवकबन्धूकौ जपा स्यादथ वैतस' इत्यजयः । तत्पार्श्वगतः यः स्फटिकोपल:
स्फटिकमणिः तन्न्यायेन तद्रीत्येति तात्पर्यार्थः । मञ्जीराः नूपुरस्थानीयाः ये
फणिनस्सर्पाः ।· 'मञ्जीरो नूपुरोऽस्त्रियाम् ' 'चक्षुःश्रवाः काकोदर : फणी' इति
च अमरः । तेषां ये फणामणिराजा: मणिश्रेष्ठाः तेषां याः प्रभाः कान्तयः
तासां पुञ्जः राशिः तेन पिञ्जरे अरुणे चरणारविन्दे यस्य स तथाभूतम् ।
अतिपचेळिम अत्यन्तकालवशात्परिपक्वं यद्भाग्यम् अदृष्टम् तेन योगेन यमनिय-
माद्यनुष्ठानेन च निर्मलानि रागादिमलरहितानि तथाभूतैः । अत एव समाधिषु
ध्यानेषु, चरणयोः पादयोः, लग्नानि सङ्क्रान्तानि तथाभूतैः । महायोगिनां अन्तः
करणैः मनोभिरिव स्थितैः । "शिवमन्त्रस्य रुद्राध्यायप्रसिद्धमन्त्रराजस्येत्यर्थः ।
पर्यवसितैः परिणतैः, पञ्चभिः पञ्चसङ्ख्याकैः, अक्षरैः वर्णैरिव स्थितैः ।
अतिसुन्दरैः अत्यन्तमनोहरैः सव्यापसव्ययोर्वामद क्षिणयोः । 'वामं शरीरे सव्यं
स्यादपसव्यं तु दक्षिणम्' इत्यमरः । पादयोश्चरणयोः नखैः । 'नखोऽस्त्री
नखरोऽस्त्रियाम्' इत्यमरः । * आदिमा: भारत्यः आदिवचनानि आदिगिरः ।
वेदा इति तात्पर्यार्थः । 'अथ भारती । चचने च सरस्वत्यां पक्षिवृत्तिप्रभेदयोः"

इति हेमचन्द्रः । स्त्रीप्रत्ययंबलात् 'स्त्रीव्यक्तयः व्यज्यन्ते । तासां चिकुराः
चिकुरप्रायाः उपनिषदः । 'चिंकुर: कुन्तलो वाल: कचः केशश्शिरोरुहः'
इत्यमरः । त एव बन्धः अधिष्ठानम् । 'बन्धकं व्यसने चेत: पीडाधिष्ठानमाधयः?
इत्यमरः । यद्वा चिकुरबन्धः चिकुराधिष्ठानमित्यर्थः । एवञ्चादिमभारतीचिकुर-
धन्घमित्यस्य वेदशिर इति फलितार्थः । तमवतसंयन्तं विभूषयन्तम् । अवतं-
सयन्तमित्यत्र तत्करोति'' इति णिजन्ताल्लटश्शत्रादेशः । वेदप्रतिपाद्यमिति
भावः । अध:कृत लोकवासनादीनामष्टकं येन तत् तथाभूतम् । वासनाष्टकमुक्तं
 
1/
 
1. रुद्राध्यायः पञ्चाक्षरमन्त्रसोरः, सच उपनिषद्रूंपादिभारतीचिकुर बन्धावतंस
इति पञ्चाक्षरीजपम
जपमहिमानमभिव्यनक्कि ॥