We're performing server updates until 1 November. Learn more.

This page has been fully proofread twice.

मेकेन करेण, अतिकठिनाज्ञानपाषाणसमुट्टङ्कनायेव गृहीतटङ्कमितकरेण, निरुपप्लवापवर्गदानसत्रदीक्षिते जयत्यभयङ्करे करे निस्सारभोगवदान्येन किं मयेति ह्रियेवावाङ्मुखेन वराङ्कितेन करारविन्देन परिपूरयन्तमभिमतान्यभिसन्धिमताम्, नीरूपदिगम्बराच्छादननिर्वेदादिव बहुरूपेण तारक्षवेण चर्मणाऽभिसंवीतम्, चिन्मये अतिनिर्मले वपुषि जपाकुसुमपार्श्वग-
 
[commentary]
 
प्रतीति वाऽर्थः । जिगमिषन्तं गन्तुमिच्छन्तमिव स्थितं वेदमयं वेदस्वरूपम्, मृगं हरिणम् । 'मृगे कुरङ्गवातायुहरिणाऽजिनयोनयः' इत्यमरः । अपरपादयोः पश्चाच्चरणयोर्नियन्त्रणेन नियमनेनेत्यर्थः । आत्मन्येव निभृतं निश्चलं यथा तथा नियच्छन्तं निगृह्णन्तम्, अतिकठिनमतिनिष्ठुरम् । 'कर्कशं कठिनं क्रूरं कठोरं निष्ठुरम्' इत्यमरः । यदज्ञानमेव पाषाणं तस्य समुट्टङ्कनं विभेदनं तस्मा इव इतरस्तदन्यः यः करो हस्तस्तेन गृहीतः स्वीकृतः टङ्कः पाषाणभेदकायोविकारो येन स तथाभूतम् ।
'वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारणः' इत्यमरः । निष्क्रान्तः उपप्लवः उत्पातो विप्लवो वा यस्मात्सः । 'उपप्लवस्सैंहिकेये विप्लवोत्पातयोरपि' इति हेमचन्द्रः । तथाभूतश्चासौ योऽपवर्गो मोक्षः । 'मोक्षोऽपवर्गोऽथाज्ञानम्' इत्यमरः । तस्य दानं वितरणं तदेव सत्रं एकवत्सरादिबहुवत्सरादिसाध्ययागविशेषः । तस्मिन् दीक्षिते बुद्धदीक्षे अत एवाभयङ्करे
[^१]अभयप्रदातरि, करे हस्ते, जयति सर्वोत्कर्षेण वर्तमाने सतीत्यर्थः । निस्सारस्तुच्छो यो भोगः वैषयिकसुखं तस्य वदान्येन दात्रा । 'भोगस्सुखे स्त्र्यादिभृतौ' 'वदान्यो दातृमहतोः' इति च अमरः । मया किं प्रयोजनमिति ह्रिया लज्जयेव, अवाङ्मुखेन अधोमुखेन वराङ्कितेन वरदमुद्राङ्कितेन करारविन्देन अभिसन्धिमतां फलाभिलाषवताम् अभिमतानि प्रार्थितार्थान् अभीरयन्तं (?) वितरन्तमित्यर्थः । योगेन संरक्षणधुरीणमिति भावः । अथवा पूरयन्तं पालयन्तमित्यर्थः । क्षेमेण संरक्षकमिति भावः । 'पॄ पालनपूरणयोः' इति धातोर्णिजन्ताल्लटश्शत्रादेशः । नीरूपं रूपरहितं यद्दिगेवाम्बरं वस्त्रम् । 'अम्बरं व्योम्नि वाससि' इत्यमरः । तेनाच्छादनं परितो धारणं तस्मिन् निर्वेदो जुगुप्सा तस्मादिव बहून्यनेकानि रूपाणि नीलपीतादीनि यस्य तत्तथाभूतेन । तरक्षोः व्याघ्रस्य इदं तारक्षवं वैयाघ्रमित्यर्थः । तथाभूतेन चर्मणाऽजिनेन । 'तरक्षुस्तु मृगादनः' 'अजिनं चर्म
 
[^१] अभयमुद्रया मोक्षदानं, वरमुद्रया अवरया वृतेप्सितदानं, टङ्कमुद्रया अज्ञानपाषाणसमुट्टङ्कनम् -- इति करचतुष्टयचिह्नस्य तात्पर्यं दर्शितम् ।