This page has been fully proofread once and needs a second look.

तुरीयाश्वांसः
 
गृहीतटङ्कमितरकरेण,
 
मृगं
 

 
मेकेन करेण, अतिकठिनाज्ञानपाषाणसमुट्टङ्कनायेव
गृहीतटङ्कमितकरेण, निरुपप्लवा पवर्गदानसत्रदीक्षिते जयत्यभयङ्करे करे निस्सारभोगवदान्येन
कि
किं मयेति हिह्रियेवावाङ्मुखेन वराङ्कितेन करारविन्देन परिपूरयन्त मभिमता-
न्यभिसन्धिमताम्, नीरूपदिगम्बराच्छादननिर्वेदादिव बहुरूपेण तारक्ष-
वेण चर्मणाऽभिसंवीतम्, चिन्मये अतिनिर्मले वपुषि जपाकुसुमपार्श्वग
-
 
[commentary]
 
प्रतीति वाऽर्थः । जिगमिषन्तं गन्तुमिच्छन्तमिव स्थितं वेदमयं वेदस्वरूपम्,
मृगं हरिणम् । 'मृगे कुरङ्गवातायुहरिणाऽजिनयोनयः' इत्यमरः । अपरपादयोः पश्चा-
च्चरणयोर्नियन्त्रणेन नियम नेनेत्यर्थः । आत्मन्येव निभृतं निश्चलं यथा तथा नियच्छन्तं
निगृह्णन्तम्, अतिकठिनमति निष्ठुरम् । 'कर्कशं कठिनं क्रूरं कठोरं निष्ठुरम् '
' इत्यमरः । यदज्ञानमेव पाषाणं तस्य समुट्टङ्कनं विभेदनं तस्मा इव इतरस्तदन्यः यः
!
करो हस्तस्तेन गृहीतः स्वीकृतः टङ्क:कः पाषाणभेदकायोविकारो येन स तथाभूतम् ।

'वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारण :णः' इत्यमरः । निष्क्रान्तः उपप्लव:वः उत्पातो
विष्ठवप्लवो वा यस्मात्सः । 'उपप्लवस्सैसैंहिकेये विप्लवोत्यापातयोरपि' इति हेमचन्द्रः ।
तथाभूतश्चासौ योऽपवर्गोंगो मोक्षः । 'मोक्षोऽपवर्गोऽथाज्ञानम्' इत्यमरः । तस्य दानं
वितरणं तदेव सत्रं एकवत्सरादिबहुवत्सरादिसाध्ययाग विशेषः । तस्मिन् दीक्षिते
बुद्धदीक्षे अत एवाभयङ्करे '
[^१]
अभयप्रदातरि, करे हस्ते, जयति सर्वोत्कर्षेण वर्तमाने
सतीत्यर्थ:थः । निस्सारस्तुच्छो यो भोगः वैषयिकसुखं तस्य वदान्येन दात्रा । 'भोग-
स्सुखे स्त्र्यादिभृतौ ' ' ' 'वदान्यो दातृमहतोः' इति च अमरः । मया किं प्रयोजनमिति
ह्रिया लज्जयेव, अवाङ्मुखेन अघोधोमुखेन वराङ्कितेन वरदमुद्राङ्कितेन करारविन्देन
अभिसन्धिमतां फलाभिलाषवताम् अभिमतानि प्रार्थितार्थान् अभीरयन्तं (?) वितरन्त-
मित्यर्थः । योगेन संरक्षणधुरीणमिति भावः । अथवा पूरयन्तं पालयन्त मित्यर्थः ।
क्षेमेण संरक्षकमिति भाव: । 'पूवः । 'पॄ पालनपूरणयोः' इति धातोर्णिजन्ताल्लटश्शत्रा-
देश:शः । नीरूपं रूपरहितं यद्दिगेवाम्बरं वस्त्रम् । 'अम्बरं व्योन्म्नि वाससि' इत्यमरः ।
तेनाच्छादनं परितो धारणं तस्मिन् निर्वेदो जुगुप्सा तस्मादिव बहून्यनेकानि
रूपाणि नीलपीतादीनि यस्य तत्तथाभूतेन । तरक्षोः व्याघ्रस्य इदं तारक्षवं
वैयाघ्रमित्यर्थः । तथाभूतेन चर्मणाऽजिनेन । 'तरक्षुस्तु मृगादन:नः' 'अजिनं चर्म
 
C
 
२८९
 
1.

 
[^१]
अभयमुद्रया मोक्षदानं, वरमुद्रया अवरया वृतेप्सितदानं, टङ्कमुद्रया अज्ञान-
पाषाणसमुहङ्कनम् ट्टङ्कनम् -- इति करचतुष्टय चिह्नस्य तात्पर्यं दर्शितम् ।
N- 37