This page has been fully proofread twice.

त्रिपुरविजययशोविशदेनेव परापराशेषविद्यात्मना प्रवहतो वचनामृतस्य निष्यन्देनेव मन्दस्मितेन च मदयन्तमिव मनांसि महायोगिनाम्, कदासौ पूर्येत, कदा चेममारोहेयमिति कुतूहलादुद्ग्रीवमालोकयन्तमिव चूडाचन्द्रमसं उदश्ञ्चिताग्रपादतया किञ्चिदन्यतो जिगमिषन्तमिव प्रकृतिचापलेन [^१]वेदमयं मृगमपरपादनियन्त्रणेन, नियच्छन्तमात्मन्येव निभृत-
 
[commentary]
 
तिक्रर्मणं, तस्माद्भयं भीतिः तस्मादिव हेतोः कर्णान्तयोः श्रोत्रनिकटयोः, पर्यवस्थितेन कृतावासेन, निरन्तरम् अनवरतं करुणाया आसारान् धारासम्पातान् वोढुं शीलं यस्य तत्तथाभूतेने लोचनयोर्युगळं युग्मं तेन । 'युग्मं तु युगळं युगम्' इत्यमरः । त्रिपुरविजयस्त्रिपुरसंहारप्रयुक्तो विजयस्तस्माद्यानि
यशांसि तैर्विशदं धवलं तथाभूतेनेव परापरसज्ञिकाः या अशेषाः निखिलाः विद्याः शास्त्राणि तासां आत्मा स्वरूपं तेन । अत्रायं विशेषः । परा विद्या ब्रह्मविद्या, अपरा विद्या
शीक्षाद्यङ्गषट्कोपेतऋग्यजुस्सामाथर्वणलक्षणकर्मकाण्डात्मकविद्या इति । तथा प्रश्नोपनिषदि 'द्वे विद्ये वेदितव्ये इति ह स्म ब्रह्मविदो वदन्ति' इत्युपक्रम्य 'परा चैवोपरा च' इति प्रथमं विभागं कृत्वा, पश्चादपरविद्यास्वरूपं 'तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्वणवेदश्शीक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम्' इत्यनेनोक्त्वा परविद्यास्वरूपमपि 'अथ परा, यया तदक्षरमधिगम्यते' इत्यनेनोक्तमिति बोध्यम् । प्रवहतः प्रसरतः वचनमेव अमृतं पीयूषं तस्य निष्यन्दः स्रवणं तेनेव स्थितेन मन्दस्मितेन, महायोगिनां सनकादीनां, मनांसि मदयन्तं परितोषयन्तमिव स्थितम् । क्रिञ्च, असौ शिरस्थितश्चन्द्रः कदा पूर्येत पूर्णत्वभरितो भवेत् । इममिन्दुमारोहेयमारूढो भविष्यामि इति इत्थं कुतूहलात् औत्सुक्यात्, उत्क्षिप्ता ग्रीवा कण्ठो यस्मिन् कर्मणि तत्तथा । क्रियाविशेषणमेतत् । चूडाचन्द्रमसं शिरःस्थितमिन्दुमालोकयन्तं पश्यन्तमिव स्थितम् । किञ्चिदीषदुदञ्चितौ उत्क्षिप्तौ अग्रपादौ अग्रचरणौ येन स तस्य भावस्तत्ता तया । प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु' इति भास्करः । तथा यच्चापलं चाञ्चल्यम् । 'चापलं त्वनवस्थानम्' इति कोशलक्षणात् ॥ तेन । करणे तृतीयेयम् । अन्यतोऽन्यत्र अन्यदेशं
 
[^१] हरिणपाणिता - वेदमयमृगनियन्त्रणरूपेणोत्प्रेक्ष्यते ॥ मृग्यमाणत्वात् वेदो मृगः । तस्य विस्मरणं ब्रह्मोज्झतारूपं किल्बिषं मा भूदिति करेण नियच्छन्नन्यान् वेदविशारदान्बोधयतीत्यर्थः ॥