This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये संव्याख्याने
 
**
 
त्रिपुरविजय यशोविशदेनेव परापराशेषविद्यात्मना
प्रवहतो वचनामृतस्य
निष्यन्देनेव मन्दस्मितेन च मदयन्तमिव मनांसि महायोगिनाम्,
कदासौ पूर्येत, कदा चेममारोहेयमिति कुतूहला दुद्ग्रीवमालोकयन्तमिव
चूडाचन्द्रमसं उदश्चिताग्रपादतया किञ्चिदन्यतो जिगमिषन्तमिव प्रकृति-
चापलेन '[^१]वेदमयं मृगमपरपादनियन्त्रणेन, नियच्छन्तमात्मन्येव निभृत-
Vi
 
*
 

 
[commentary]
 
तिक्रर्मणं, तस्माद्भयं भीतिः तस्मादिव हेतोः कर्णान्तयोः श्रोत्रनिकटयोः, पर्यव-
स्थितेन कृतावासेन, निरन्तरम् अनवरत करुणाया आसारान् धारासम्पातान् वोढुं
 
1344
 
2
 
**
 
,
 
शीलं यस्य तत्तथाभूतेने लोचनयोर्युगळं युग्मं तेन । 'युग्मं तु युगळं युगम्'
इत्यमरः । त्रिपुरविजयस्त्रिपुरसंहारप्रयुक्तो विजयस्तस्माद्यानि
शांसि तैर्विशदं
धवलेलं तथाभूतेनेव परापरसज्ञिकाकाः या अशेषाः निखिलाः विद्याः शास्त्राणि
तासां आत्मा स्वरूपं तेन । अत्रायं विशेषत्र ।" परषः । परा विद्या ब्रह्मविद्या, अपरा विद्या

शीक्षाद्यङ्गषट्कोपेतऋग्यजुस्सामाथर्वणलक्षणकर्मकाण्डात्म कविद्या इति । तथा प्रश्नो-
पनिषदि' 'द्वे विद्ये वेदितव्ये इति ह स्म ब्रह्मविदो वदन्ति' इत्युपक्रम्य 'परा
चैवोपरांरा च' इति प्रथमं विभागं कृत्वा, पश्चादपर विद्यास्वरूपं 'तत्रापरा ऋग्वेदो
यजुर्वेदस्सामवेदोऽथर्वणवेदश्शीक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम्' इत्य-
नेनोक्त्वा परविद्यास्वरूपमपि अ परा; ग्ययाः, यया तदक्षरमधिगम्यते' इत्यनेनोक्त-
मिति बोध्यम् । प्रवहत.तः प्रसरत:-तः वचनमेव अमृतं पीयूषं तस्य निष्यन्दः स्रवणं
तेनेव स्थितेन मन्दस्मितेन, महायोगिनां सनकादीनां, मनांसि मदयन्तं परितोष-
यन्तमिव स्थितम् । क्रिञ्च, असौ शिरस्थितश्चन्द्रः कदा पूर्येत पूर्णत्वभरितो भवेत् ।
मॅमिन्दुमारोहेयमारूढो भविष्यामि इति इत्थं कुतूहलात् औत्सुक्यात्, उत्क्षिप्ता ग्रीवा
कण्ठो यस्मिन् कर्मणि ततथा या क्रियाविशेषणमेतत् । चूडाचन्द्रमसं शिरः स्थित-
मिन्दुमालोकयन्तं पश्यन्तमिव स्थितम् । किञ्चिदीषदुदश्ञ्चितौ उत्क्षिप्तौ अग्रपादौ
अग्रचरणौ येन स तस्य भावस्तता तया । प्रकृतिः स्वभावः । 'प्रकृतिः पञ्चभूतेषु
स्वभावे सचिवादिषु' इति भास्करः । तथा यच्चापलं चाञ्चल्यम् । 'चापलं त्वनव-
स्थानम्' इति कोशलक्षणात् ॥ तेन । करणे तृतीयेयम् । अन्यतोऽन्यत्र अन्यदेशं
मिहोप
 
1.

 
[^१]
हरिणपाणिता - वेदमय मृगनियन्त्रणरूपेणोत्प्रेक्ष्यते ॥ मृग्यमाणत्वात् वेदो मृगः ।
तस्य विस्मरण
तस्य विस्मरणं ब्रह्मोज्झतारूपं किल्विषबिषं मा 'भूदिति करेण नियच्छन्नन्यान् वेदविशारदान्
बोधयतीत्यर्थः ॥
 
i
 
F