2023-08-19 06:54:04 by Bharadwajraki
This page has been fully proofread twice.
लोचनेन परिहरन्तमान्तरं तमो भक्तिमताम्, कुण्डलितकुण्डलिराजफणामणिमयूखराजिनीराजितेन निसर्गसुन्दरेण गण्डमण्डलेन, श्रुत्युल्लङ्घनभयादिव कर्णान्तपर्यवसितेन निरन्तरकरुणासारवाहिना लोचनयुगळेन,
[commentary]
इत्यमरः । तेभ्यस्समुच्चलन्तः समुत्पतन्तः अर्चिषां अन्तःस्थाग्निशिखानां ये स्फुलिङ्गाः । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः । तेषां परिष्वङ्गमात्रात्सम्बन्धमात्रादेव जगति लोके निश्शेषीभवति निरवशेषभूते सति निरीक्षितव्यः दर्शनीयः तस्यासम्भवादिव हेतोर्वेत्यर्थः । निर्मलेन मलरहितेन कलङ्करहितेनेति यावत् । चन्द्रखण्डेन शशिशकलेन कर्पूरेणेति च गम्यते । नेत्रातिशैत्यसम्पादकत्वेनोपयोगात् । 'घनसारश्चन्द्रसंज्ञः' इत्यमरः । नित्यम् अनवरतं, निमीलितेन
सङ्घटितेनेत्यर्थः । भसितानि भस्मरूपाणि यानि त्रीणि पुण्ड्राणि तिलकानि । 'भूतिर्भस्मनि सम्पदि' इत्यमरः । 'पुण्ड्रो देशेक्षुतिलकभेदे क्रिम्यतिमुक्तयोः' इति नानार्थमाला च । तान्येव हाराः मुक्तावळ्यादयः । 'हारो मुक्तावळी देवच्छन्दोऽसौ' इत्यमरः । तेषां या मालिकाः नक्षत्रमालादयः । 'सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' इत्यमरः । तासां सम्बन्धी यः पद्मरागः तत्संज्ञिकशोणरत्नम्। 'शोणरत्नं लोहितकं पद्मरागोऽथ मौक्तिकम्' इत्यमरः । तरळो हारमध्यभाङ्मणिः । 'तरळो हारमध्यगः' इत्यमरः । तेनेव स्थितेन, ललाटलोचनेन[^१] फालनयनेन भक्तिराराध्यत्वेन ज्ञानमेषामस्तीति भक्तिमन्तः तेषामान्तरं हृदयस्थं तमस्तमोगुणमेवान्धकारम् । 'तमो राहौ गुणध्वान्ते शूक' इति नानार्थमाला । परिहरन्तं निवारयन्तं, कुण्डलितौ कर्णकुण्डलीकृतौ यौ कुण्डलिराजौ सर्पौ तयोः फणानां मणयः माणिक्यानि तेषां ये मयूखाः त्विषः । 'मयूखस्त्विट्करज्वालासु' इत्यमरः । तेषां या राजिः पङ्क्तिः, तथा नीराजितेन आरार्तिकीकृतेनेत्यर्थः । निसर्गात् स्वभावत एव सुन्दरेण दर्शनीयेन । 'सुन्दरं रुचिरं चारु' इत्यमरः । गण्डौ कपोलौ । 'अधस्ताच्चिबुकं गण्डकपोलौ तत्परा हनुः' इत्यमरः । तयोर्मण्डलं प्रदेशः तेन । 'मण्डलं त्रिषु कुष्ठे स्यादुपसूर्यकवेशयोः' इति नानार्थमाला । श्रुती श्रोत्रे ते एव श्रुतयो वेदाः श्लिष्टरूपकम् । 'वेदे श्रवसि च श्रुतिः' इत्युभयत्राप्यमरः । तयोरुल्लङ्घनम-
[^१] ललाटलोचनेन कामो दग्धः इति कथायाः, कामादिमूलभूतमान्तरं तमो दग्धमित्यध्यात्मरीत्या तात्पर्यार्थः ॥