This page has been fully proofread once and needs a second look.

तुयश्वासः
 
लोचनेन परिहरन्तमान्तरं तमो भक्तिमताम्, कुण्डलितकुण्डलिराजफेणा-.
मणिमयूखराजिनीराजितेन निसर्गसुन्दरेण गण्डमण्डलेन, श्रुत्युल्लङ्घन-
भयादिव कर्णान्तपर्यवसितेन निरन्तरकरुणासारवाहिना लोचनयुगळेन,
 
-
 

 
[commentary]
 
इत्यमरः । तेभ्यस्समुच्चलन्तः समुत्पतन्तः अर्चिषां अन्तः स्थामिग्निशिखानां ये
 
D
 
.
 
स्फुलिङ्गाः । 'त्रिषु स्फुलिङ्गोऽग्निकण : णः' इत्यमरः । तेषां परिष्वङ्गमात्रात्
सम्बन्धमात्रादेव जगति लोके निश्शेषीभवति निरवशेषभूते सति निरीक्षितव्यः
दर्शनीयः तस्यासम्भवादिव हेतोर्वेत्यर्थः । निर्मलेन मलरहितेन कलङ्करहितेनेति
यावत् । चन्द्रखण्डेन शशिशकलेन कर्पूरेणेति च गम्यते । नेत्रातिशैत्यसम्पाद-
कत्वेनोपयोगात् । 'घनसारश्चन्द्रसंज्ञः' इत्यमरः । नित्यम् अनवरतं, निमीलितेन

सङ्घटितेनेत्यर्थः । भसितानि भस्मरूपाणि यानि त्रीणि पुण्डाड्राणि तिलकानि ।
'भूतिर्भस्मनि सम्पदि' इत्यमरः । 'पुण्ड्रो देशेक्षुतिलक भेदे क्रिम्यतिमुक्तयोः' इति
नानार्थमाला च । तान्येव हारा:राः मुक्तावळ्यादयः । 'हारो मुक्तावळी
देवच्छन्दोऽसौ' इत्यमरः । तेषां या मालिकाः नक्षत्रमालादयः । 'सैव
नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' इत्यमरः । तासां सम्बन्धी य:
यः पद्मरागः तत्संज्ञिकशोणरत्नम्। 'शोणरलंत्नं लोहितकं पद्मरागोऽथ मौक्तिकम्'
इत्यमरः । तरळो हारमध्यभामणि:ङ्मणिः । 'तरळो हारमध्यगः' इत्यमरः ।
तेनेव स्थितेन, ललाटलोचनेन'[^१] फालनयनेन भक्तिराराध्यत्वेन ज्ञानमेषामस्तीति
भक्तिमन्तः तेषामान्तरं हृदयस्थं तमस्तमोगुणमेवान्धकारम् । 'तमो राहौ
गुणध्वान्ते शुशूक' इति नानार्थमाला । परिहरन्तं निवारयन्तं, कुण्डलितौ
कर्पू
र्ण कुण्डलीकृतौ यौ कुण्डलिराज़ौजौ सर्पोंपौ तयोः फणानां मणयः माणिक्यानि तेषां
ये मयूखा:-खाः त्विषः । 'मयूखस्विट्करज्वालासु' इत्यमरः । तेषां या राजि:
जिः पङ्क्तिः, तथाःथा नीराजितेन आरार्तिकीकृतेनेत्यर्थः । निसर्गात् स्वभावत एव
सुन्दरेण दर्शनी येन । 'सुन्दरं रुचिरं चारु' इत्यमरः । गण्डौ कपोलौ । 'अघ-
स्ताच्चिबुकं गण्डकपोलौ तपसत्परा हनुः' इत्यमरः । तयोर्मण्डलं प्रदेशः तेन । 'मण्डलं
त्रिषुःषु कुष्ठे स्यादुपसूर्यकवेशयोः?' इति नानार्थमाला । श्रुती श्रोत्रे ते एव श्रुतयो
वेदाः श्लिष्टरूपकम् । 'वेदे श्रवसि च श्रुतिः' इत्युभयत्राप्यमरः । तयोरुल्लङ्घनम-
2
 
·
 
1.

 
[^१]
ललाटलोचनेन कामो दग्ध: इति:धः इति कथायाः, कामादिमूलभूतमान्तरं तमो
दग्धमित्यध्यात्मरीत्या तात्पर्यार्थिःथः