2023-08-19 06:41:05 by Bharadwajraki
This page has been fully proofread twice.
नायेवाव द्वितीयाचन्द्रतामुपजग्मुषा, परमज्ञानरूपतयेव परिहृतकळङ्कानुषङ्गेण कपर्दवबन्धनोरगदंष्ट्राङ्कुरेणेव कुटिलनिर्मलेन चन्द्रखण्डेन मण्डितम्, जगन्निष्कामताहेतुतयेव निष्कामजनोपासनीयेन पक्ष्मविवरसमुच्चलदर्चिस्स्फुलिङ्गपरिष्वङ्गमात्रादेव निश्शेषीभवति जगति निरीक्षतव्यासम्भवादिव नित्यनिमीलितेन भसितत्रिपुण्ड्रहारमालिकापद्मरागतरळेनेव ललाट-
[commentary]
'श्वेतरक्तस्तु पाटलः' इति च अमरः । तथाभूते जटानां सटानां वलये मण्डले । 'व्रतिनां तु जटा सटा' इत्यमरः । प्रतिष्ठिततया स्थापिततया अत एव सान्ध्यरागः सन्ध्याकालसम्बन्ध्यारुण्यं तेन संवळितेन मिळितेनेव स्थितेनेत्यर्थः । सकलस्वरूपश्चासौ शिवश्चेति कर्मधारयः । 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः ।
तद्विषयकं यत् ज्ञानं 'वासुदेवस्सर्वम्' इतिवत्, शिवस्सर्वमित्याकारकं तस्याधिगमो लाभः तदर्थो य आरम्भः शैवशास्त्रोपक्रमस्तस्य संसूचनाय ज्ञापनायेवेत्यर्थः । यद्वा ज्ञायते एभिरिति करणे ल्युट्प्रत्ययेन सकलानि यानि शिवज्ञानानि शैवप्रतिपादकशास्त्राणीति वाऽर्थः । शिष्टं प्राग्वत् । अथवा, ज्ञानमित्यत्र भावे ल्युट्प्रत्ययवशात् सकलानि यानि शिवस्य ज्ञानानि उपासनान्यपि इत्यर्थः ।
शिष्टं प्राग्वत् । द्वितीयाचन्द्रतां द्वितीयातिथिचन्द्रत्वं उपजग्मुषा प्राप्तवता परमुत्कृष्टं यत् ज्ञानं तद्रूपतया तत्स्वरूपत्वेनेव भगवन्मनस्सकाशादुत्पन्नत्वादिति भावः । परिहृतः परित्यक्तः, कलङ्कस्य अनुषङ्गसम्बन्धो यस्य स तथाभूतेन कपर्दस्य जटाजूटस्य बन्धनार्थो य उरगः सर्पः । 'कपर्दोऽस्य जटाजूटः' 'उरगः पन्नगो भोगी' इति च अमरः । तस्य या दंष्ट्रा तालुसमीपवर्तिस्थूलदन्तस्तस्यांकुरेणेव स्थितेन कुटिलं वक्रं च तन्निर्मलं मलरहितं चेति कर्मधारयः । तथाभूतेन चन्द्रखण्डेन चन्द्रशकलेन मण्डितमलङ्कृतम् । 'मडि भूषायाम्' इत्यतः कर्मणि क्तप्रत्ययः । अत्र यद्यपि शिवशिरःस्थितचन्द्रखण्डस्य द्वितीयाचन्द्रतायाः स्वाभाविकत्वात् तस्य सकलशिवज्ञानाधिगमारम्भसंसूचनं फलम्, तथाप्यस्यासत्फलकत्वोक्तेः फलोत्प्रेक्षालङ्कारः । 'अफलस्य फलत्वकल्पनं फलोत्प्रेक्षा' इति लक्षणात् । जगतां लोकानां, निष्कामता मदनराहित्यं सैव निष्कामता फलेच्छाराहित्यं श्लिष्टरूपकम् । तत्र हेतुतया कारणत्वेनेव । करणे तृतीयेयम् । निष्क्रान्ताः कामाः फलाभिलाषाः येभ्यस्ते तथाभूता ये जनाः तैरुपासनीयः उपास्यः तथाभूतेन । पक्ष्मणां निमेषाणां विवराणि । 'सुषिरं विवरं बिलम्'