This page has been fully proofread once and needs a second look.

नीलकण्ठ विजनाये सव्याख्याने
 
जायेव
वाद्वितीयाचन्द्रतामुपजग्मुषा, परमज्ञानरूपतयेव परिहृतकळङ्कानुषङ्गेण
कपर्दवन्धनोरगदंष्ट्रा ङ्कुरेणेव कुटिलंनिर्मलेन चन्द्रखण्डेन मण्डितम्,
जगन्निष्कामताहेतुतयेव निष्कामजनोपासनीयेन पक्ष्मविवरसमुच्चलदर्चि-
-स्स्फुं
स्स्फुलिङ्ग परिष्वङ्गमात्रा देव निश्शेषीभवति जगति निरीक्षतव्यासम्भवा-
-
दिव नित्यनिमीलितेन भसितत्रिपुण्ड्रहारमालिकापद्मरागतरळेनेव ललाट-
4
 
3
 

 
[commentary]
 
'श्वेतरक्तस्तु पाटल:लः' इति च अमरः । तथाभूते जटानां सटानां वलये
मण्डले । 'व्रतिनां तु जटा सटा -' इत्यमरः । प्रतिष्ठिततया स्थापिततया अत एव
सान्ध्यराग:गः सन्ध्याकालसम्बन्ध्यारुण्यं तेन संवळितेन मिळितेनेव स्थितेनेत्यर्थः ।
सकलस्वरूपश्चासौ शिवश्चेति कर्मधारयः । 'सर्वं खल्विदं ब्रह्म' इति श्रुतेः ।

तद्विषयकं यत् ज्ञानं 'वासुदेवस्सर्वम्' इतिवत्, शिवस्सर्वमित्याकारकं तस्याधिगमो
लाभः तदर्थो- य आरम्भः शैवशास्त्रोपक्रमस्तस्य संसूचनाय ज्ञापनायेवेत्यर्थः ।
यद्वा ज्ञायते एभिरिति करणे ल्युट्प्रत्ययेन सकलानि यानि शिवज्ञानानि
शैवप्रतिपादकशास्त्राणीति वाऽर्थः । शिष्टं प्राग्वत् । अथवा, ज्ञानमित्यत्र भावे
ल्युट्प्रत्ययवशात् सकलानि यानि शिवस्य ज्ञानानि उपासनान्यपि इत्यर्थः ।

शिष्टं प्राग्वत् ।.. द्वितीयाचन्द्रतां द्वितीया तिथिचन्द्रत्वं उपजग्मुषा प्राप्तवता
परमुत्कृष्टं यत् ज्ञानं तद्रूपतया तत्स्वरूप त्वेनेव भगवन्मनस्सकाशादुत्पन्नत्वादिति
भावः । परिहृतः परित्यक्तः, कलङ्कस्य अनुषङ्ग सम्बन्धो यस्य स तथाभूतेन
कपर्दस्य जटाजूटस्य बन्धनार्थो य उरगः सर्पः । 'कपर्दोऽस्य जटाजूट:'
टः' 'उरगुःगः पन्नगो भोगी' इति च अमरः । तस्य या दंष्ट्रा तालुसमीपवर्तिस्थूलदन्त-
स्तस्यां कुरेणेव स्थितेन कुटिलं वक्रं च तन्निर्मलं मलरहितं चेति कर्मधारयः ।
तथाभूतेन चन्द्रखण्डेन चन्द्रशकलेन मण्डितमलङ्कृतम् । 'मडि भूषायाम्'
इत्यतः कर्मणि क्तप्रत्ययः । अत्र यद्यपि शिवशिरः स्थितचन्द्रखण्डस्य द्वितीया -
चन्द्रतायाः स्वाभाविकत्वात् तस्य सकलशिवज्ञानाधिगमारम्भसंसूचनं फलम्,
तथाप्यस्या सत्फलकत्वोक्तेः फलोत्प्रेक्षालङ्कारः । 'अफलस्य फलत्वकल्पनं फलो-
त्प्रेक्षा' इति लक्षणात् । जगतां लोकानां, निष्कामता मदनराहित्यं सैव निष्कामता
फलेच्छाराहित्यं श्लिष्टरूपकम् । तत्र हेतुतया कारणत्वेनेव । करणे तृतीयेयम् ।
निष्क्रान्ताः कामाः फलाभिलाषा:षाः येभ्यस्ते तथाभूता ये जनाः तैरुपासनीय:
यः उपास्यः तथाभूतेन । पक्ष्मणां निमेषाणां विवराणि । 'सुषिरं विवरं बिलम्'
 
.