This page has been fully proofread twice.

तत्र च पवित्रतरनदनदीनदीशादितीर्थस्वरूपतासम्भावितक्लेदनैयत्यानुवृत्त्येव
सामिविकसितलालाटविलोचनधूमरेखासंस्तवेनेव कबळितजाह्नवीकोपपरिपूरितगर्भतयेव च परिणतपाटलिम्नि जटावलये प्रतिष्ठिततया सान्ध्यरागसंवलितेनेव सकलशिवज्ञानाधिगमारम्भसंसूच-
 
[commentary]
 
णानन्तरं माधवः श्रीविष्णुः समाधिः ध्यानं यावच्छ्लथयामास विगळयाम्बभूव तावदेव । अवध्यर्थकावत्र यावत्तावच्छब्दौ । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इति कोशात् । अस्य श्रीहरेः पुरः पुरहरं त्रिपुरसंहर्तृ महः तेजः । 'तेजःपुरीषयोवर्चो महस्तूत्सवतेजसोः' इत्यमरः । आविर्बभूव दृष्टिपथवर्ति बभूवेत्यर्थः । तथोक्तं श्रीभागवते 'तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् । विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् । आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥' इति । अथ शिखादिनखपर्यन्तं परशिवं वर्णयितुमारभते ॥ तत्रेति ॥ तत्र च तत्काले प्रदेशे वेत्यर्थः । पूतानि पवित्राणि यानि नदानां शोणादीनां नदीनां गङ्गादीनां नदीशानां रत्नाकरादीनां च तीर्थानि जलानि । 'पूतं पवित्रं मेध्यं च' 'निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इति च अमरः । तेषां स्वरूपः तस्य भावस्तत्ता । शिवस्य जलस्वरूपत्वं स्कान्दपुराणे -- 'योऽपां स्वरूपेण नृणां करोति' इत्यादिनोक्तम् । तया सम्भावितस्सम्प्राप्तः यः क्लेदः आर्द्रत्वमित्यर्थः । 'आर्द्रं सार्न्द्रं किन्नम्' इत्यादिकोशोक्तत्वात् । तस्य नैयत्यं सन्ततावस्थानं तदनुवृत्त्या तदनुसरणेनेव । 'अनुवृत्तिस्त्वनुसरणमनुवर्तनजीवनम्' इत्यजयः । सामि अर्धं विकसितं स्फुटितं लालाटं फालसम्बन्धि च तद्विलोचनञ्च । 'सामि त्वर्धे जुगुप्सने' 'ललाटमलिकं गाधिः' 'लोचनं नयनं नेत्रम्' इति सर्वत्र अमरः । तस्य या धूमरेखा धूमरीजिः । 'श्रेणीरेखास्तु राजयः' इत्यमरः । तस्यास्संस्तवस्सम्बन्धः । 'संस्तवः स्यात्परिचयः' इत्यमरः । तेनेव । करणे तृतीयेयम् । कबळिता
भक्षिता, भरितेति तात्पर्यार्थः । या जाह्नवी गङ्गा तस्याः कोपः क्रोधः तेन परिपूरितः सर्वत्र भरितः, गर्भः कुक्षिदेशो यस्यास्सा तस्या भावस्तत्ता तया । हेतौ तृतीयेयम् । कोपस्य रजोगुणकार्यत्वेन आरुण्यमिति भावः । परिणतं कालवशात्परिपाकं प्राप्तं पाटलिमं श्वेतरक्तत्वं यस्य तत् । 'पक्वं परिणते गूनम्'