This page has been fully proofread once and needs a second look.

तुरीया श्वांसः
 
तत्र च पवित्रतरननैयत्यानुवृत्त्येव
 
पवित्रतर नद
नदी नदीशादितीर्थस्वरूपतासम्भावितक्ले-
दनैयत्यानुवृत्त्येव
सामिविकसितलालाटविलोचन धूमरेखासंस्तवेनेव
ळित जाह्नवीकोपपरिपूरितगर्भतयेव च परिणतपाटलिम्नि जटावलये
प्रतिष्ठिततया सान्ध्यरंरागसंवलितेनेव सकलशिवज्ञानाधिगमा रम्भसंसूच-
2
 
.
 
२८५
 

 
[commentary]
 
णानन्तरं मावः श्रीविष्णुः समाधिः ध्यानं यावच्छूछ्लथयामास विगळयाम्बभूव
तावदेव । अवध्यर्थकावत्र यावत्तावच्छब्दौ । 'यावत्तावच्च साकल्ये ऽवधौ
"
मानेऽवधारणे' इति कोशात् । अस्य श्रीहरेः पुरः पुरहरं त्रिपुरसंहर्तृ महः
तेजः । "'तेज:जःपुरीषयोवर्चो महस्तूत्सवतेजसोः' इत्यमरः । आविर्बभूव दृष्टि-
'
पथवर्ति बभूवेत्यर्थः । तथोक्तं श्रीभागवते 'तदुग्रवेगं दिशि दिश्युपर्यघो
धो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं
'
सदाशिवम् । विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥' इति । अथ शिखादि-
नखपर्यन्तं परशिवं वर्णयितुमारभते ॥ तत्रेति ॥ तत्र च तत्काले प्रदेशे वेत्यर्थः ।
पूतानि पवित्राणि यानि नदानां शोणादीनां नदीनां गङ्गादीनां नदीशानां
रैला
रत्नाकरादीनोंनां च तीर्थानि जलानि । 'पूतं पवित्रं मेध्यं च' 'निपानागमयो-
स्तीर्थमृषिजुष्टजले गुरौ " "' इति च अमरः । तेषां स्वरूपः तस्य भावस्तत्ता ।
शिवस्ये जलस्वरूपत्वं स्कान्दपुराणे -- 'योऽपां स्वरूपेण नृणां करोति' इत्यादि-
नोक्तम् । तया सम्भावित स्सम्प्राप्त: य:तः यः क्लेद:दः आर्द्रस्त्वमित्यर्थ:थः । 'आर्द्रं सार्न्द्
रं किन्नम्' इत्यादिकोशीशोक्तत्वात् । तस्य नैयत्यं सन्ततावस्थानं तदनुवृत्त्या
तदनुसरणेनेव । 'अनुवृत्तिस्त्वनुसरणमनुवर्तनजीवनम्' इत्यजयः । सामि अर्
धं विकसितं स्फुटितं लालाटं फालसम्बन्धि च तद्विलोचनञ्च । 'सामि वर्षेत्वर्धे जुगुप्सने '
' 'ललाटमलिक गोधि:कं गाधिः' 'लोचनं नयनं नेत्रम्' इति सर्वत्र अमरः । तस्य या
धूमरेखा धूमरीजिः । 'श्रेणीरेखास्तु राजयः' इत्यमरः । तस्यास्संस्तवस्सम्बन्धः
'संस्तवः स्यात्परिचयः' इत्यमरः । तेनेव । करणे तृतीयेयम् । कळिता

भक्षिता, भरितेति तात्पर्यार्थः । या जाह्नवी गङ्गा तस्याः कोपः क्रोधः तेन
परिपूरितः सर्वत्र भरितः, गर्भ:भः कुक्षिदेशो यस्यास्सा तस्या भावस्तत्ता तया ।
हेतौंतौ तृतीयेयम् । कोपस्य रजोगुणकार्यत्वेन आरुण्य मिति भावः । परिणतं
कलि
कालवशात्परिपाकं प्राप्तं पाटलिमं श्वेतरक्तत्वं यस्य तत् । 'पक्कंवं परिणते गूनम्'