This page has not been fully proofread.

तुरीया श्वांसः
 
दनैयत्यानुवृत्त्येव
 
पवित्रतर नद नदी नदीशादितीर्थस्वरूपतासम्भावितक्ले-
सामिविकसितलालाटविलोचन धूमरेखासंस्तवेनेव
कवळित जाह्नवीकोपपरिपूरितगर्भतयेव च परिणतपाटलिम्नि जटावलये
प्रतिष्ठिततया सान्ध्यरंगसंवलितेनेव सकलशिवज्ञानाधिगमा रम्भसंसूच-
2
 
.
 
२८५
 
णानन्तरं माघवः श्रीविष्णुः समाधिः ध्यानं यावच्छूलथयामास विगळयाम्बभूव
तावदेव। अवध्यर्थकावत्र यावत्तावच्छब्दौ । 'यावत्तावच साकल्ये ऽवधौ
"मानेऽवधारणे' इति कोशात् । अस्य श्रीहरेः पुरः पुरहरं त्रिपुरसंहर्तृ महः
तेजः । "तेज:पुरीषयोवर्चो महस्तूत्सवतेजसोः' इत्यमरः । आविर्बभूव दृष्टि-
'पथवर्ति बभूवेत्यर्थः । तथोक्तं श्रीभागवते 'तदुग्रवेगं दिशि दिश्युपर्यघो
विसर्पदुत्सर्पदसलमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं
'सदाशिवम् । विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ इति । अथ शिखादि-
नखपर्यन्तं परशिवं वर्णयितुमारभते ॥ तत्रेति ॥ तत्र च तत्काले प्रदेशे वेत्यर्थः ।
पूतानि पवित्राणि यानि नदानां शोणादीनां नदीनां गङ्गादीनां नदीशानां
रैलाकरादीनों च तीर्थानि जलानि । 'पूतं पवित्रं मेध्यं च' 'निपानागमयो-
स्तीर्थमृषिजुष्टजले गुरौ " "इति च अमरः । तेषां स्वरूपः तस्य भावस्तत्ता ।
शिवस्ये जलस्वरूपत्वं स्कान्दपुराणे — 'योऽपां स्वरूपेण नृणां करोति' इत्यादि-
नोक्तम् । तया सम्भावित सम्प्राप्त: य: क्लेद: आर्द्रस्वमित्यर्थ: । 'आर्द्रं सान्द्र
किन्नम् इत्यादिकोशीक्तत्वात् । तस्य नैयत्यं सन्ततावस्थानं तदनुवृत्त्या
तदनुसरणेनेव । 'अनुवृत्तिस्त्वनुसरणमनुवर्तनजीवनम्' इत्यजयः । सामि अर्ध
विकसित स्फुटित लालाटं फालसम्बन्धि च तद्विलोचनञ्च । 'सामि वर्षे जुगुप्सने '
'ललाटमलिक गोधि:' 'लोचनं नयनं नेत्रम्' इति सर्वत्र अमरः । तस्य या
धूमरेखा धूमरीजिः । 'श्रेणीरेखास्तु राजयः' इत्यमरः । तस्यास्संस्तवस्सम्बन्धः।
'संस्तवः स्यात्परिचयः' इत्यमरः । तेनेव । करणे तृतीयेयम् । कचळिता
भक्षिता, भरितेति तात्पर्यार्थः । या जाह्नवी गङ्गा तस्याः कोपः क्रोधः तेन
परिपूरितः सर्वत्र भरितः, गर्भ: कुक्षिदेशो यस्यास्सा तस्या भावस्तत्ता तया ।
हेतौं तृतीयेयम् । कोपस्य रजोगुणकार्यत्वेन आरुण्य मिति भावः । परिणतं
कलिवशात्परिपाकं प्राप्तं पाटलिम श्वेतरक्तत्वं यस्य तत् । 'पक्कं परिणते गूनम्'