2023-07-04 10:51:54 by Bharadwajraki
This page has been fully proofread twice.
अथवा किमिति स्मरामि दुष्कवीनधुना ।
सकलभुवनैकमङ्गळशङ्करगुणवर्णनप्रवृत्तेन।
न स्मरणीयाः कुधियो लोकायतिका इव व्रतस्थेन ॥ ५ ॥
कति कवयः कति कृतयः
कति लुप्ताः कति चरन्ति कति शिथिलाः ।
[commenatry]
वपुष्मान् लोके स्वात्मानं दर्शयामास, सः श्रीकण्ठविद्यागुरुः शिवविद्यागुरुः । श्रीमान् सत्यविद्याप्रतिपादकत्वेन सर्वादरणीयतया श्रीमत्त्वव्यपदेशः । अप्पयदीक्षितः अप्पयदीक्षितनामा, महान् कविः, जयति सर्वोत्कर्षेण वर्तते । इत्थं च स्वग्रन्थप्रतिपाद्यशिवोत्कर्षप्रथमप्रवर्तकस्य सर्वोत्कर्षप्रतिपादनेन शिवोत्कर्षप्रतिपादकस्य स्वग्रन्थस्याप्यन्यग्रन्थावधिकोत्कर्ष उक्तो भवति ॥
स्वाभिमतं कविं प्रस्तुत्य कुकविनिन्दामाह ॥ य इति ॥ दुष्कवीनां अविद्वत्कवीनां । कृतिविरचने ग्रन्थरचने। अभेद्यः परैरनिवारणीयः संरम्भः प्रयत्नः, यच्च चित्तवृत्तेः, तदुचितपदान्वेषणे स्वाभिमतग्रन्थनिर्माणोचितसुप्तिङन्तगवेषणे । ऐकान्त्यं अव्यभिचारः । तदुभयमपि, अन्ततः ग्रन्थसमाप्तिसन्निकृष्टकाले त्रीण्यहानि, अथवान्ततो गत्वा त्रीणि वा अहानि, तेषां कवयतां लभ्यं चेत् । एवं प्रकृतकाल इव, सरसकविताराज्ये सरसकवितातादात्म्याध्यासितराज्ये, दुर्भिक्षयोगः
अभावाध्यासितक्षामसम्पत्तिः, स्यात्किं[^१] न स्यादेवेत्यर्थः । एवञ्च कुकवीनां स्वग्रन्थेषु दैवात्प्रमादा इत्यादिप्रलापाः स्वचित्तानैकाग्र्यादिच्छादनार्था इति पर्यवसितम् । मतान्तरमाश्रित्य कुकविनिन्दायाः ग्रन्थानुपयोगितया तत्सन्दर्भे प्रवृत्तमात्मानमपि जुगुप्सन् पारमार्थिकस्वग्रन्थे निन्दार्थं कुकवीनां स्मरणमयुक्तमित्यभिप्रेत्याह ॥ अथवेति ॥ अधुना भगवद्गुणाभिवर्णनकाले । दुष्कवीन्, किमिति
किं साधनीयमिति । स्मरामि स्मरणविषयान्करोमि । प्रत्युत कुकविस्मरणं तादृशग्रन्थरचने प्रवृत्तस्य स्वस्य अयुक्तमित्यपि सदृष्टान्तमाह ॥ सकलभुवनेत्यादिना ॥ सकलेति ॥ व्रतस्थेन सत्कर्मनिष्ठेन । लोकायतिका इव नास्तिका इव । सकलभुवनैकमङ्गळशङ्करगुणवर्णनप्रवृत्तेन सकलभुवनेषु एकं मङ्गळं यत्शङ्करगुणानां विषभक्षणविबुधपरिपालनादीनां वर्णनं, तत्र प्रवृत्तेन । मयेति शेषः ।
[^१] काक्वा अयमर्थोलब्धः ।