This page has been fully proofread twice.

इति स्तुतिभिरर्थ्याभिर्ध्यायतो निश्चलं शिवाम् ।
अस्पन्देष्वस्य गात्रेषु पस्पन्दे दक्षिणो भुजः ॥ १७ ॥
 
अवतीर्णा चास्य कर्णसरणिमशरीरिणी वाणी ।
 
'साधु वत्स जगन्नाथ साधु विष्णो जगन्मय ।
पश्य त्वमात्मनात्मानं परमं ज्योतिरैश्वरम् ॥ १८ ॥' इति ॥
 
अथ यावत्समाधिं तं श्लथयामास माधवः ।
तावदाविर्बभूवास्य पुरः पुरहरं महः ॥ १९ ॥
 
[commentary]
 
वस्तुषु' इत्यमरः ॥ इतीति ॥ इति इत्थं अर्थादभिधेयादनपेताHताः अर्थ्याः । अन्वर्था इत्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' (४.४.९२) इति सूत्रेण यत्प्रत्ययः । तथा भूताभिः स्तुतिभिः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । शिवां पार्वतीम् । 'शिवा भवानी रुद्राणी' इत्यमरः । निश्चलमस्खलनं यथा तथा ध्यायतः ध्यानं कुर्वतः अस्य श्रीविष्णोरस्पन्देषु ईषन्मात्राचलनेष्वपि गात्रेष्ववयवेषु । 'गात्रं प्रतीकं दन्त्यग्रजङ्घाभागे वपुष्यपि' इति नानार्थमाला । दक्षिणो भुजः बाहुः । 'वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्' इत्यमरः । पस्पन्दे किञ्चित् पुस्फोरेत्यर्थः । 'स्पदि किञ्चिच्चलने' इति धातोर्लिट् । 'शर्पूर्वाः खयः' (७.४.६१) इति पकारावशेषः । तदुक्तं देवीभागवते 'अब्रह्मण्यं ब्रुवाणोऽसौ सिद्धैरभ्यर्थितस्तदा । किमेतदिति सञ्चिन्त्य ब्रह्मा तत्रातिविस्मितः ॥ व्याक्षिप्तचेतसस्सर्वे बभूवुः स्तिमितेक्षणाः । त्रैलोक्यविपदं दृष्ट्वा ततस्सिद्धा महर्षयः ॥ संमन्त्र्य विधिर्विष्णुभ्यां ध्यात्वा देवीं महेश्वरीम् । सम्प्रेरितास्तथा देव्या लोकानां हितकाम्यया । शरणं प्रापुरव्यग्राश्शङ्करं करुणाकरम् । कालकूटोपशान्त्यर्थं सर्वलोकमहेश्वरम् ॥' इति ॥ अवतीर्णेति ॥ अस्य श्रीविष्णोः कर्णसरणिं कर्णपथं प्रति अशरीरिणी शरीर्यनुच्चारिता वाणी वाक् अवतीर्णा अवततार । तद्वागानुपूर्वीमेवाह ॥ साध्विति ॥ हे वत्स किशोर, जगन्नाथ जगत्पते साधु तव ध्यानमिति भावः । जगन्मय जगत्स्वरूप हे पश्य विष्णो साधु । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः । त्वं भवान् आत्मना स्वेन आत्मानं स्वमेव ऐश्वरं ईश्वरसम्बन्धि परममुत्कृष्टं ज्योतिस्तेजोरूपं पश्य जानीहि शिवमहम्भावेन भजस्वेति भावः ॥ अथेति ॥ अथ तद्वाक्छ्रव-