This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
इति स्तुतिभिरर्थ्याभिर्ध्यायतो निश्चलं शिवाम् ।

अस्पन्देष्वस्य गात्रेषु पस्पन्दे दक्षिणो भुजः ॥ १७ ॥

 
अवतीर्णा चास्य कर्णसरणिमशरीरिणी वाणी प्र
 

 

 
'साधु वत्स जगन्नाथ साधु विष्णो जगन्मय ।

पश्य त्वमात्मनात्मानं परमं ज्योतिरैश्वरम् ॥ १८ ॥ इति ॥
' इति ॥
 
अथ यावत्समाधिधिं तं श्लथयामास माधवः ।

तावदाविर्बभूवास्य पुरः पुरहरं महः ॥ १९ ॥
 
18.15
 

 
[commentary]
 
वस्तुषु' इत्यमरः ॥ इतीति ॥ इति इत्थं अर्थादभिधेयादनपेता: अर्ध्H अर्थ्याः ।
अन्वर्था इत्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' (4-4-92४.४.९२) इति सूत्रेण यत्प्रत्ययः । तथा-
भूताभिः स्तुतिभिः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । शिवां पार्वतीम् । 'शिवा
भवानी रुद्राणी' इत्यमरः । निश्चलमस्खलनं यथा तथा घ्ध्यायतः ध्यानं कुर्वतः अस्य
श्रीविष्णोरस्पन्देषु ईषन्मात्राचलनेष्वपि गात्रेष्ववयवेषु । 'गात्रं प्रतीकं दन्त्य -
ग्रजङ्घाभांभागे वपुष्यपि' इति नानार्थमाला । दक्षिणो भुज:जः बाहुः । 'वामं शरीरे
सव्यं स्यादपसव्यं तु दक्षिणम्' इत्यमरः । पुस्पन्दे किञ्चित् पुस्फोरेत्यर्थः । 'स्पदि
किञ्चिच्चलने' इति धातोर्लिंलिट् । 'शर्पूर्वाः खयः)' (7-4-61७.४.६१) इति पकारावशेषः । तदुक्तं
देवीभागवते 'अब्रह्मण्यं ब्रुवाणोऽसौ सिद्धैरभ्यर्थितस्तदा । किमेतदिति सञ्चिन्त्य
ब्रह्मा तत्रातिविस्मितः ॥ व्याक्षिप्त चेत सस्सर्वे बभूवुः स्तिमितेक्षणा:णाः । त्रैलोक्यवि-
पदं दृष्ट्वा ततस्सिद्धाःधा महर्षयः ॥ संमन्त्र्य विधिर्विष्णुभ्यां घ्याध्यात्वा देवीं महेश्व-
रीम् । सम्प्रेरितास्तथा देव्या लोकानां हितकाम्यया । शरणं प्रापुरव्यप्ग्राश्शङ्करं
करुणाकरम् । कालकूटोपशान्त्यर्थं सर्वलोकमहेश्वरम् ॥' इति ॥ अवतीर्णेति ॥
अस्य श्रीविष्णोः कर्णसरणिणिं कर्णपथं प्रति अशरीरिणी शरीर्यनुच्चारिता वाणी वाक्
अवतीर्णा अवततार । तद्वागानुपूर्वीमेवाह ॥ साध्विति ॥ हे वत्स किशोर, जगन्नाथ
जगत्पते साधु तव ध्यानमिति भावः । जगन्मय जगत्स्वरूप हे पश्य विष्णो
साधु । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्' इत्यमरः । त्वं भवान्
आत्मना स्वेन आत्मानं स्वमेव ऐश्वरं ईश्वरसम्बन्धि परममुत्कृष्टं ज्योतिस्तेजोरूपं
पश्य जानीहि शिवमहम्भावेन भजस्वेति भावः ॥ अथेति ॥ अथ तद्वाक्छ्रव-
55
 
E