2023-06-05 16:40:33 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
इति स्तुतिभिरर्थ्याभिर्ध्यायतो निश्चलं शिवाम् ।
अस्पन्देष्वस्य गात्रेषु परपन्दे दक्षिणो भुजः ॥ १७ ॥
अवतीर्णा चास्य कर्णसरणिमशरीरिणी वाणी प्र
★
'साधु वत्स जगन्नाथ साधु विष्णो जगन्मय ।
पश्य त्वमात्मनात्मानं परम ज्योतिरैश्वरम् ॥ १८ ॥ इति ॥
अथ यावत्समाधि तं लथयामास माधवः ।
तावदाविर्बभूवास्य पुरः पुरहरं महः ॥ १९ ॥
18.15
वस्तुषु' इत्यमरः ॥ इतीति ॥ इति इत्थं अर्थादभिधेयादनपेता: अर्ध्याः ।
अन्वर्था इत्यर्थः। 'धर्मपथ्यर्थन्यायादनपेते' (4-4-92) इति सूत्रेण यत्प्रत्ययः । तथा-
भूताभिः स्तुतिभिः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । शिवां पार्वतीम् । 'शिवा
भवानी रुद्राणी' इत्यमरः । निश्चलमस्खलनं यथा तथा घ्यायतः ध्यानं कुर्वतः अस्य
श्रीविष्णोरस्पन्देषु ईषन्मात्राचलनेष्वपि गात्रेष्ववयवेषु । 'गात्र प्रतीकं दन्त्य -
ग्रजङ्घाभांगे वपुष्यपि' इति नानार्थमाला । दक्षिणो भुज: बाहुः । 'वाम शरीरे
सव्यं स्यादपसव्यं तु दक्षिणम् इत्यमरः । पुस्पन्दे किञ्चित् पुरफोरेत्यर्थः । 'स्पदि
किञ्चिचलने' इति धातोर्लिंट्। 'शर्पूर्वाः खयः) (7-4-61) इति पकारावशेषः । तदुक्तं
देवीभागवते 'अब्रह्मण्यं ब्रुवाणोऽसौ सिद्धैरभ्यर्थितस्तदा । किमेतदिति सञ्चिन्त्य
ब्रह्मा तत्रातिविस्मितः ॥ व्याक्षिप्त चेत सस्सर्वे बभूवुः स्तिमितेक्षणा: । त्रैलोक्यवि-
पदं दृष्ट्वा ततस्सिद्धाः महर्षयः ॥ संमन्त्र्य विधिविष्णुभ्यां घ्यावा देवीं महेश्व-
रीम् । सम्प्रेरितास्तथा देव्या लोकानां हितकाम्यया । शरणं प्रापुरव्यप्राश्शङ्करं
करुणाकरम् । कालकूटोपशान्त्यर्थ सर्वलोकमहेश्वरम् ॥ इति ॥ अवतीर्णेति ॥
अस्य श्रीविष्णोः कर्णसरणि कर्णपथं प्रति अशरीरिणी शरीयनुचारिता वाणी वाक्
अवतीर्णा अवततार। तद्वागानुपूर्वीमेवाह ॥ साध्विति ॥ हे वत्स किशोर, जगन्नाथ
जगत्पते साधु तव ध्यानमिति भावः । जगन्मय जगत्स्वरूप हे पश्य विष्णो
साधु । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् इत्यमरः । त्वं भवान्
आत्मना स्वेन आत्मानं स्वमेव ऐश्वरं ईश्वरसम्बन्धि परममुत्कृष्टं ज्योतिस्तेजोरूपं
पश्य जानीहि शिवमहम्भावेन भजस्वेति भावः ॥ अथेति ॥ अथ तद्वाक्छव-
55
E