This page has been fully proofread twice.

अपि च ।
 
'अतीतत्रैगुण्यामशरणशरण्यां भगवतीं
अहं तामालम्बे दृढतरमहन्तां पशुपतेः ।
तदाद्यं तत्त्वानामजरमपरिच्छेद्यमपरं
पराभूतद्वैतं परमपदमाविर्भवतु मे ॥ १६ ॥'
 
[commentary]
 
मायेति कर्मधारये 'आन्महतः' (६.३.४६) इत्यादिना महत आकारः । तस्यास्सम्बुद्धिः । 'स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः' इत्यमरः । तस्या जगन्मोहत्वाच्छाम्बरीवन्मायात्वमिति भावः । हे महेश्वरि जगन्नियन्त्रीत्यर्थः । हे जगद्रूपिणि जगत्स्वरूपे । प्रकृतिकार्यत्वादिति भावः । हे परदेवते त्वत्तव सौभाग्यं माहात्म्यं तदेव महाविभूतिः तस्य वा महाविभूतिस्सम्पत् । 'भूतिर्भस्मनि सम्पदि' इत्यमरः । तस्याः कणिका लेशः तस्याः यो लेशः तस्य लेशायते लेशवदाचरति इत्यर्थः ॥ अतीतेति ॥ त्रिगुणा एव त्रैगुण्यम् । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् प्रत्ययः । त्रैगुण्यमतिक्रान्ता अतीतत्रैगुण्या । यतः स्वयमेव त्रिगुणात्मिका ततः स्वातिरिक्तसत्त्वरजस्तमोगुणत्रयरहितेत्यर्थः । तथाभूतां अविद्यमानं शरणं रक्षको येषां ते अशरणाः अस्मदादयः तेषां शरण्यां रक्षणधुरीणामित्यर्थः । 'शरणं गृहरक्षित्रोः' इत्यमरः । भगवतीं माहात्म्यवतीम् । 'भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु' इत्यमरः । पशुपतेः परमेश्वरस्य अहमो भावः अहन्ता, अहङ्काररूपिणीत्यर्थः । तदुक्तं 'पुरमथितुराहोपुरुषिका'[^१] इति । तथाभूतां तां परदेवतां अहं अतिशयेन दृढं दृढतरम् । 'गाढबाढदृढानि च' इत्यमरः । आलम्बे ध्यायामीति तात्पर्यार्थः । अविद्यमाना जरा यस्य तदजरं देशकालवस्तुभिः परिच्छेत्तुं अनर्हमपरिच्छेद्यं अप्रमेयमित्यर्थः । अमलं निर्मलं पराभूतं तिरस्कृतं द्वैतं येन तत्तथाभूतम् । तत्त्वानां पञ्चविंशतिसङ्ख्याकानां आद्यं प्राथमिकं तत्तत्त्वमित्यर्थः । मे मम आविर्भवतु स्फुरतु । चकास्त्वित्यर्थः । यद्वा तत्त्वानां मुख्यं आद्यम् । 'आद्यं आदिभवे मुख्ये' इति भास्करः । परमं निरतिशयं यत्पदं वस्तु तदित्यर्थः । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि-
 
[^१] सौन्दर्यलहरी (श्लो - ७) ।